Table of Contents

<<5-2-97 —- 5-2-99>>

5-2-98 वत्सांसाभ्यां कामबले

प्रथमावृत्तिः

TBD.

काशिका

वत्सांसशब्दाभ्याम् लच् प्रत्ययो भवति यथासङ्ख्यं कामवति बलवति च अर्थे। वत्सलः। अंसलः। वृत्तिविषये वत्सांसशब्दौ स्वभावात् कामबलयोर् वर्तमानौ तद्वति प्रत्ययम् उत्पादयतः। न ह्यत्र वत्सार्थः अंसार्थो वा विद्यते। वत्सलः इति स्नेहवानुच्यते, वत्सलः स्वामी, वत्सलः पिता इति। अंसलः इति च उपचितमांसो बलवानुच्यते। न च अयम् अर्थो मतुपि सम्भवति इति नित्यं लजेव भवति। अन्यत्र अंसवती गौः, अंसवान् दुर्बलः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1880 वत्सासाभ्यां लच्स्यादिति। `मत्वर्थे' इति शेषः। कामबलशब्दौ तद्वति लाक्षणिकावित्यभिप्रेत्याह–कामवति बलवति चेति।

तत्त्वबोधिनी

1445 वत्सांसाभ्याम्। कामवतीति। कामबलशब्दौ सूत्रे अर्शाअद्यजन्ताविति भावः। वत्सल इति। स्नेहवानित्यर्थः। ननु वत्सांसशब्दौ वयोविशेषे प्राण्यङ्गविशेषे च रूढौ, न कामबलयोः, तत्कथं ताभ्यां लजन्ताभ्यां कामवान्?बलवांश्चेच्यत इति चेत्। अत्राहुः– -वृत्तिविषये वत्सांसशब्दौ स्नेहबलयोर्वर्तते इति। अ\उfffद्स्मस्तु प्रकरणे सर्तर् समुच्चीयमानोऽपि मतुबिह नेष्यते, मतु बन्तेनोक्तार्थस्याऽप्रतीतेः। किं त्वर्थान्तरमेव तेन प्रतीयते। वत्सवती गौः। अंसवान् दुर्लब इति।

Satishji's सूत्र-सूचिः

TBD.