इति वा
TBD.
इन्द्रियम् इत्यन्तोदात्तं शब्दरूपं निपात्यते। रूढिरेषा चक्षुरादिनां करणानम्। तथा च व्युत्पत्तेरनियमं दर्शयति। इन्द्रशब्दात् षष्ठीसमर्थात् लिङ्गम् इत्येतस्मिन्नर्थे घच्प्रत्ययो भवति। इन्द्रस्य् लिङ्गम् इन्द्रियम्। इन्द्र आत्मा, स चक्षुरादिना करणेन अनुमीयते। नाकर्तृकं करणम् अस्ति। इन्द्रेण दृष्टम्। तृतीयासमर्थात् प्रत्ययः। आत्मना दृष्टम् इत्यर्थः। इन्द्रेण सृष्टम्, आत्मना सृष्टम्। तत्कृतेन शुभाशुभकर्मणोत्पन्नम् इति कृत्वा। इन्द्रेण जुष्टम्, आत्मना जुष्टं, सेवितम्। तद्द्वारेण विज्ञानोत्पादनात्। इन्द्रेण दत्तम्, आत्मना विषयेभ्यो दत्तं यथायथं ग्रहणाय। इतिकरणः प्रकारार्थः। सति सम्भवे व्युत्पत्तिरन्यथा ऽपि कर्तव्या, रूढेरनियमातिति। वाशब्दः प्रत्येकम् अभिसम्बध्यमानो विकल्पानां स्वातन्त्र्यम् दर्शयति।
TBD.
–
1868 इन्द्रियम्। इन्द्रलिङ्गमित्याद्यर्थेषु इन्द्रियमिति भवति। इन्द्रशब्दाद्यथायोगं षष्ठीतृतीयान्ताल्लिङ्गमित्याद्यर्थेषु घच् निपात्यत इति यावत्। इन्द्र आत्मेति। `स एतमेव पुरुषं ब्राहृ ततममपश्यदिदमदर्शमिति। तस्मादिदन्द्रो नामेदन्द्रो ह वै नाम तमिदन्द्रं सन्तमिन्द्रमित्याचक्षते' इति श्रुतेरिति भावः। तस्यलिङ्गमिति। आत्मनोऽनुमापकमित्यर्थः। लिङ्गत्वमुपपादयति– करणेनेति। `चक्षुरादीन्द्रियं किञ्चित्कत्र्रधिष्ठितं भवितुमर्हति, करणत्वात्, घटकरणदण्डादिव'दित्यनुमानादित्यर्थः। मम चक्षुरित्येवमिन्द्रेण दृष्टं ज्ञातामिन्द्रियम्। इन्द्रेण जुष्टं सेवितं प्रीणितं वा इन्द्रियम्। रूढशब्दोऽयं कथञ्चिद्व्युत्पादितः। इन्द्रेण दुर्जयमिन्द्रियमिति साधयितुमाह–इतिकरणमिति। इतिशब्द इत्यर्थः।
470 इन्द्रियमिन्द्र। इन्द्रशब्दाद्धच्। इन्द्रेण दृष्टं=ज्ञातं—`मम चक्षुः, मम श्रोत्रम्' इत्यादिक्रमेण। सृष्टम्—अदृष्टद्वारा। जुष्टं=प्रीणितं सेवितं वा। दत्तं=यथायतं विषयेभ्यः। रूढिशब्दोऽयं यथाकथञ्चिद्व्युत्पादितः। परस्मैपदप्रक्रिया। नियमान्न तत्र परस्मैपदस्य संभवः। तथा च `कर्तरि परस्मैपद'मित्यनेन `परस्मैपदमेव'ति नियमिते त्दभिन्नानामेव तद्भविष्यतीति शेषग्रहणं स्पष्टप्तिपत्त्यर्थमित्याहुः। `अनुदात्तङितः' इत्यादिष्वेवात्मनेपदमिति नियमात् `शेषात्कर्तरी'इत्यनेन परस्मैपदमेव तत्र भविष्यतीति परस्मैपदग्रहणं स्पष्टप्रतिपत्त्यर्थमिति केचित्।
TBD.