Table of Contents

<<5-2-69 —- 5-2-71>>

5-2-70 तन्त्रादचिरापहृते

प्रथमावृत्तिः

TBD.

काशिका

तन्त्रशब्दान् निर्देशादेव पञ्चमीसमर्थातचिरापहृते इत्येतस्मिन्नर्थे कन् प्रत्ययो भवति। अचिरापहृतः स्तोककालापहृतः इत्यर्थः। तन्त्रादचिरापहृतः तन्त्रकः पटः। तन्त्रकः प्रावारः। प्रत्यग्रो नव उच्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1846 तन्त्रादचिरापह्मते। तन्त्रशब्दात्पञ्चम्यन्तादचिरापह्मतेऽर्थे कनित्यर्थः। तन्त्रं–तन्तुवायशलाका। अचिरेण कालेन अपह्मतः–अचिरापह्मतः। `कालाः परिमाणिने'ति समासः। प्रत्यग्र इति। नूतन इत्यर्थः।

तत्त्वबोधिनी

1421 तन्त्रात्। तन्यन्ते तन्तवोऽस्मिन्निति व्युत्पत्त्था तन्त्रं=तन्तुवायशलाका। अचिरः कालोऽपह्मतस्येत्यचिरापह्मतस्तस्मिन्। `कालाः परिमाणने'ति समासः। प्रत्यग्र इति। नूतन इत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.