Table of Contents

<<5-2-61 —- 5-2-63>>

5-2-62 गोषदादिभ्यो वुन्

प्रथमावृत्तिः

TBD.

काशिका

मतौ इत्येव, अध्यायानुवाकयोः इति च। गोषदादिभ्यः प्रातिपदिकेभ्यः वुन् प्रत्ययो भवति मत्वर्थे ऽध्यायानुवाकयोः। गोषदशब्दो ऽस्मिन्निति गोषडको ऽध्यायो ऽनुवाको वा। इषेत्वकः। मातरिश्वकः। गोषद। इषेत्वा। मातरिश्वन्। देवस्यत्वा। देवीरापः। कृष्णोस्याख्यरेष्टः। दैवींधियम्। रक्षोहण। अञ्जन। प्रभूत। प्रतूर्त। कृशानु। गोषदादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1838 गोषदादिभ्यो वुन्। गोषदक इति। गोषदशब्दसंयुक्तोऽध्यायो।ञनुवाको वेत्यर्थः। इषेत्वक इति। `इषेत्वे'ति शब्दयुक्त इत्यर्थः। `अस्यवामीय'मित्यत्रोक्तरीत्या सुपो न लुक्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.