Table of Contents

<<5-2-50 —- 5-2-52>>

5-2-51 षट्कतिकतिपयचतुरां थुक्

प्रथमावृत्तिः

TBD.

काशिका

डटिति अनुवर्तते,तदिह सप्तम्या विपरिणम्यते। षट् कति कतिपय चतुरित्येषां डटि पुरतस्थुगागमो भवति। कतिपयशब्दो न सङ्ख्या। तस्य अस्मादेव ज्ञापकात् डट् प्रत्ययो विज्ञायते। षण्णां पुरणः षष्ठः। कतिथः। कतिपयथः। चतुर्थः। चतुरश्छयतावाद्यक्षरलोपश्च। चतुर्णां पूरणः तुरीयः, तुर्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1181 एषां थुगागमः स्याड्डटि. षण्णां षष्ठः. कतिथः. कतिपयशब्दस्यासंख्यात्वेऽप्यत एव ज्ञापकाड्डट्. कतिपयथः. चतुर्थः..

बालमनोरमा

1827 षट्कति। थुकि ककार इत्। उकार उच्चारणार्थः। कित्त्वादन्त्यादचः परः। षष्ठ इति। अपदान्तत्वात्षस्य न जश्त्वम्। चतुर्थ इति अपदान्तत्वान्न रेफस्य विसर्गः।

आद्यक्षरस्य लोपश्चेति। `च' इति सङ्घातस्य लोपश्चेत्यर्थः।

तत्त्वबोधिनी

1411 षट्कति। इह षष्ठीनिर्देशबवात् षडादीनामागमित्वं स्पष्टमिति तदानुकूल्यंनानुवृत्तो डट् सप्तम्या विपरिणम्यते। तदाह—डटीति। डट एव थुट् तु न कृतः, षष्ठो षकारस्य जश्त्वुप्रसङ्गात्। चतुर्थे रेफस्य विसर्गप्रसङ्गाच्च। न चैवं `नान्ता 'दिति सूत्रेऽपि डति परे मुगेव विधीयतामिति वाच्यं, पञ्चमः सप्तम इत्यादौ नलोपाऽभावापत्तेः। विशेषविहिताभ्यामपि छयभ्द्यां डट्प्रत्ययो न बाध्यते, थुग्विधानसामथ्र्यात्। तेन `चतुर्थ'इति सिद्धम्। आद्यक्षरेति। अच्सहितं व्यञ्जनमक्षरशब्देनोच्यते, अच्सहितस्यादेव्र्यञ्जनस्येत्यर्थः। `व्यञ्जनसहितस्यादेरच'इति व्याख्याने तु द्विर्वचनन्यायेन तकारस्यापि लोपः स्यादिति हरदत्तः। `आदेव्र्यञ्जनस्ये'ति व्याख्याने प्रमाणं तु —-`द्वितीयतृतीये' बोध्यः।

Satishji's सूत्र-सूचिः

TBD.