Table of Contents

<<5-2-22 —- 5-2-24>>

5-2-23 हैयङ्गवीनं संज्ञायाम्

प्रथमावृत्तिः

TBD.

काशिका

हैयङ्गवीनं निपात्यते संज्ञायां विषये। ह्योगोदोहस्य हियङ्गवादेशः, तस्य विकारे खञ् प्रत्ययो भवति संज्ञायाम्। ह्योगोदोहस्य विकारः हैयङ्गवीनम्। घृतस्य संज्ञा। तेन इह न भवति, ह्योगोदोहस्य विकार उदश्वित्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1169 ह्योगोदोहशब्दस्य हियङ्गुरादेशः विकारार्थे खञ्च निपात्यते. दुह्यत इति दोहः क्षीरम्. ह्योगोदोहस्य विकारः - हैयङ्गवीनं नवनीतम्..

बालमनोरमा

1801 हैयङ्गवीनम्। ह्रसित्यव्ययं पूर्वेद्यरित्यर्थे। तत्रोत्पन्नो गोदोहः=गोपयः- ह्रोगोदोहः। तस्मात्षष्ठ\उfffद्न्ताद्विकारार्थे खञि ईनादेशे प्रकृतेर्हियङ्गु इत्यादेशे ओर्गुणे अवादेशे आदिवृद्धौ `हैयङ्गवीन'मिति भवतिसंज्ञायामिति भाष्यम्। तदाह–ह्रोगोदोहस्येत्यादिना। नवनीतमिति। भाष्ये तु `हैयङ्गवीनं घृत'मिति दृश्यते। `तत्तु हैयङ्गवीनं स्याद् ह्रोगोदोहोद्भवं घृत'मित्यमरः।

तत्त्वबोधिनी

1390 हैयंगबीनम्। ह्रोगोदोहस्येति। गोर्दोहो गोदोहः। षष्ठीसमासः। तेन सह ह्रस्शब्दस्य `सुप्सुपे'ति समासः। ततो विकारे अनुदात्तलक्षणस्याऽञोऽपवादः खञ्। अत्र ह्रस्शब्देन कालप्रत्यासत्तिर्विवक्षिता। नवनीतमिति। यद्यिपि वृत्तौ `घृत'मित्युक्तं, तथैव चामरेणा'पि—`तत्तु हैयङ्गवीनं यद् ह्रोगोहोद्भवं घृत'मित्युक्तम्, तथापि घृतशब्देन नवतीतमेव विवक्षितमिति हरदत्तग्रन्थानुरोधेनेदमुक्तम्।

Satishji's सूत्र-सूचिः

TBD.