Table of Contents

<<5-2-21 —- 5-2-23>>

5-2-22 साप्तपदीनं सख्यम्

प्रथमावृत्तिः

TBD.

काशिका

साप्तपदीनम् इति निपात्यते सख्ये ऽभिधेये। सप्तभिः पदैरवाप्यते साप्तपदीनम्। सख्यं जनाः साप्तपदीनम् आहुः। कथं साप्तपदीनः सखा, साप्तपदीनं मित्रम् इति? यदा गुणप्रधानः साप्तपदीनशब्दः सखिभावे तत्कर्मणि च वर्तते तदा सख्यशब्देन सामानाधिकरण्यं भवति, यदा तु लक्षणया वर्तते तदा पुरुषेण सामानाधिकरण्यं भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1800 साप्तपदीनम्। सप्तपदशब्दात्तृतीयान्तादवाप्यं सख्यमित्यर्थे खञि साप्तपदीनमिति भवतीत्यर्थः। सप्तभिः पदैरिति। पदविक्षेपैरित्यर्थः।

तत्त्वबोधिनी

1389 साप्तपदीनम्। योग्यतया समर्थविभक्तिस्तृतीयेति दर्शयति—सप्तभिः पदैरिति। पदमिह संभाषणं पादवक्षेपो वा तद्धितार्थे द्विगुः। अवाप्यतैत्यर्थे खञ्।

Satishji's सूत्र-सूचिः

TBD.