TBD.
शालीनकौपीनशब्दौ निपात्येते यथासङ्ख्यम् अधृष्टे अकार्ये च अभिधेये। अधृष्टः अप्रगल्भः। अकार्यम् अकरणार्हं विरुद्धम्। शालीनकौपीने अधृष्टाकार्ययोः पर्यायौ यथाकथञ्चिद् व्युत्पादयितव्यौ। शालाप्रवेशनम् अर्हति, कूपावतारम् अर्हति इति खञ् प्रत्ययः उत्तरपदलोपश्च निपात्यते। शालीनो जडः। कौपीनं पापम्।
TBD.
–
1798 शालीन। `शालप्रवेशमर्हत्यधृष्ट' इति, `कूपावतरणमर्हत्यकार्य'मिति चाऽर्थे शालाप्रवेशशब्दात्कूपावतरणशब्दाच्च खञ्। `प्रवेशशब्दस्य अवतरणशब्दस्य चोत्तरपदस्य लोपे शालीनरौपीनशब्दौ निपात्येते' इति भाष्यम्। अधृष्ट इति। अप्रगल्भ इत्यर्थः। अप्रागल्भ्यादन्यत्र गन्तुमशक्तः शालाप्रवेशमेवार्हति यः स शालीन इति यावत्। कूपपतनमिति। कूपावतरणशब्दस्य विवरणमिदम्। कूपशब्दो नरकाभिधायी। कौपीनं पापमिति। नरकपतनसाधनमकार्यं पापमित्यर्थः। अनयोरर्थयोरेतौ रूढौ। ननु पुरुषलिङ्गे कौपीनशब्दो लाक्षणिक इत्यर्थः। तत्सम्बन्धादिति। पापसाधनत्वाद्वा, पापवदाच्छादनीयत्वाद्वा पुरुषलिङ्गे कौपीनशब्दो लाक्षणिक इत्यर्थः। तत्सम्बन्धादिति। कौपीनशब्दस्य लक्ष्यपुरुषलिङ्गसंबन्धात्तदाच्छादनवस्त्रखण्डै कौपीनशब्दो लक्षितलक्षणया प्रयुज्यत इत्यर्थः।
1387 शलीनकौपीने। इमौ खप्रत्ययान्तत्वेन निपात्येते। रूढिशब्दावेतौ कथंचिद्वयुत्पाद्याविति नात्राऽवयवार्थेऽभिनिवेशः कार्यः। शालाप्रवेशमिति। अप्रागल्भ्यादन्यत्र गन्तुमशक्तः शालामेव प्रवेष्टुमर्हतीत्यर्थः। कूपपतनमिति। यदकार्यं तत्प्रच्छादनीयत्वात्कूपावतरणमर्हतीत्यर्थः। तदाच्छादनमिति। वासःखण्ड इत्यर्थः। अन्ये त्वाहुः—अकार्यशब्दे यः करोति स क्रियासामान्यवचनः, तेन लज्जाहेतुत्वेन अद्रष्टव्यत्वात्पुरुषलिङ्गं `कौपीनम्'ष। अस्पृश्त्वात्तदाच्छादनमिति।
TBD.