Table of Contents

<<5-2-128 —- 5-2-130>>

5-2-129 वातातिसाराभ्यां कुक् च

प्रथमावृत्तिः

TBD.

काशिका

वातातिसारशब्दाभ्यां इनिः प्रत्ययो भवति, तत्संनियोगेन च तयोः कुगागमो भवति। वातातिसारयोरुपतापत्वात् पूर्वेण एव सिद्धे प्रत्यये कुगर्थम् एव इदं वचनम्। वातकी। अतिसारकी। पिशाचाच् च इति वक्तव्यम्। पिशाचकी वैश्रवणः। रोगे च अयम् इष्यते। इह न भवति, वातवती गुहा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1909 वातातीसाराभ्यां। चादिनिरिति। वात, अतीसार आभ्यां मत्वर्थे इनिः स्यात् प्रकृतेः कुक् चेत्यर्थः। कुकि ककार इत्। उकार उच्चारणार्थः। कित्त्वादन्तावयवः। वातकीति। वातरोगवानित्यर्थः। अथीसारकीति। अतीसाररोगवानित्यर्थः। चायमिति। व्याख्यानादिति भावः। रोग एवेत्यर्थः। वातवती गुहेति। अत्र रोगस्याऽप्रतीतेरिनिकुकौ नेति भावः। पिशाचादिनिः प्रकृतेः कुक्चेत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.