Table of Contents

<<5-2-111 —- 5-2-113>>

5-2-112 रजःकृष्यासुतिपरिषदो वलच्

प्रथमावृत्तिः

TBD.

काशिका

रजःप्रभृतिभ्यः प्रातिपदिकेभ्यः वलच् प्रत्ययो भवति मत्वर्थे। रजस्वलास्त्री। कृषीवलः कुटुम्बी। आसुतीवलः शौण्दिकः। परिषद्वलो राजा। वले 6-3-118 इति दीर्घत्वम्। इतिकरणो विषयनियमार्थः सर्वत्र सम्बध्यते। तेन इह न भवति, रजो ऽस्मिन् ग्रामे विद्यते इति। वलच्प्रकरणे ऽन्येभ्यो ऽपि दृश्यत इति वक्तव्यम्। भ्रातृवलः। पुत्रवलः। उत्साहवलः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1893 रजःकृषि। रजस्, कृषि, आसुति, परिषद् एभ्यो मत्वर्थे वलच्स्यादित्यर्थः। आसुतीवल इति। `षुञ् अभिषवे'। आङ्पूर्वात्स्त्रियां क्तिन्। `वले' इति दीर्घः।\र्\नन्येभ्योऽपीति। वार्तिकमिदम्। `रजः कृषी'त्यादिसूत्रोपात्तादन्येभ्योऽपि वलच्दृश्यत इत्यर्थः। भ्रातृवलः। `ढ्रलोपे' इत्यतोऽण इत्यनुत्तेः `वले' इति न दीर्घः। पुत्रवल इत्यादौ `वले' इति दीर्घमाशङ्क्याह–वले इत्यत्रेति।

तत्त्वबोधिनी

1456 आसुतीवल इति। `षुञ् अभिषवे'। क्तिन्। आसुतिरभिषवः। परिषद्वल इति। परितः सीदतीति परिषत्। `सत्सूद्विषे'त्यादिना क्विप्। `सदिरप्रते'रिति षत्वम्। पाठान्तरमिति। `शृ?दृ?भसोऽदिः'इत्यदिप्रत्ययो बाहुलकात् पृषेरपि भवति। तथा च भाष्यं—–`पार्षदकृतिरेषा तत्रभवतां' `सर्ववेदपार्षदं हीदं शास्त्र'मिति च। भट्टिस्त्वाह—`पर्षद्बलान्महाब्राहृऐराट नैकटिकाश्रमा'निति। `पर्षदेषा दसावरे'ति मनुः।\र्\नन्येभ्योऽपि दृश्यते। भ्रातृवल इति। `वले' इत्यत्राऽण्ग्रहणानुवृत्तेर्नेह दीर्घः। पुत्रवलादौ तु स्यात्तत्राह— संज्ञायामित्यनुवृत्तेरिति। `वनगिर्यो 'रिति सूत्रादिति भावः।

Satishji's सूत्र-सूचिः

TBD.