TBD.
लोमादिभ्यः पामादिभ्यः पिच्छादिभ्यश्च त्रिभ्यो गणेभ्यो यथासङ्ख्यं श न इलचित्येते प्रत्यया भवन्ति मत्वर्थे, मतुप् च। लोमादिभ्यः शो भवति लोमशः, लोमवान्। पामादिभ्यो नो भवति पामनः, पामवान्। पिछादिभः इलच् भवति पिच्छिलः, पिच्छवान्। उरसिलः, उरस्वान्। लोमन्। रोमन्। वल्गु। बभ्रौ। हरि। कपि। शुनि। तरु। लोमादिः। पामन्। वामन्। हेमन्। श्लेष्मन्। कद्रु। बलि। श्रेष्ठ। पलल। सामन्। अङ्गात् कल्याणे। शाकीपललीदद्र्वां ह्रस्वत्वम् च। विष्वगित्युत्तरपदलोपश्चाकृतसन्धेः। लक्ष्म्या अच्च। पामादिः। पिच्छ। उरस्। घ्रुवका। क्षुवका। जटाघटाकलाः क्षेपे। वर्ण। उदक। पङ्क। प्रज्ञा। पिच्छादिः।
TBD.
1191 लोमादिभ्यः शः. लोमशः. लोमवान्. रोमशः. रोमवान्. पामादिभ्यो नः. पामनः. (ग. सू.) अङ्गात्कल्याणे. अङ्गना. (ग. सू.) लक्ष्म्या अच्च. लक्ष्मणः. पिच्छादिभ्य इलच्. पिच्छिलः. पिच्छवान्..
1882 लोमादि। श, न, इलच् एते त्रिभ्यो गणेभ्यो यथासङ्ख्यं स्युर्मत्वर्थे अङ्गात्कल्याणे इति। पामादिगणसूत्रम्। कल्याणं=सुन्दरं, तद्विशेषणकादङ्गशब्दान्मत्वर्थे नप्रत्यय इत्यर्थः। अङ्गनेति। कल्याणानि अङ्गानि अस्या इति विग्रहः। `लक्ष्म्याअच्चे'त्यपि पामादिगणसूत्रम्। लक्ष्मीशब्दान्मत्वर्थे नप्रत्ययः स्यात्प्रकृतेरकारोऽन्तादेशश्च। लक्ष्मण इति। लक्ष्मीरस्यास्तीति विग्रहः। नप्रत्यये प्रकृतेकारे अन्तादेशे णत्वम्। इदं वार्तिकं पठितम्। `विषु' इत्यव्ययं सर्वत इत्यर्थे विषु अञ्चतीति विष्वङ्। सर्वतोगामीत्यर्थ इति धूर्तस्वामी। `विषु' इति तिर्यगर्थे इति भवस्वामी। पराङ्भुख इति भट्टभास्करः। विषु अञ्च् इत्यस्मात् अकृतसन्धेर्मत्वर्थे नप्रत्ययः स्यात्। उत्तरपदलोपश्चेत्यर्थः। विषुण इति। विष्वङ् अस्यास्तीति लौकिकविग्रहः। विषु अञ्च इत्यलौकिकविग्रहवाक्यम्। कृतसन्धेर्नप्रत्यये तु विष्वक्शब्दे उत्तरपदस्य लोपे `लोपो व्यो'रिति यलोपे विष्ण इति स्यादिति भावः। समर्थानामित्यस्यापवादोऽयम्।
1447 लोमादि। इह `नन्दिग्रहिपचादिभ्यः'इतिवत् `लोमपामपिच्छादिभ्यः'इति सुपठम्। `अङ्ग कल्याणे'इति गणसूत्रमर्थतः पठति—-अङ्गादिति। ह्यस्वत्वं च। शाकीपलालीदद्र्वा ह्यस्वत्वं च। चान्नप्रत्ययः। महच्छाकं शाकी। तद्वत्—शाकिनम्। महत्पलालं पलाली। तद्वत् पलालिनम्। `दरिद्रातेर्यालोपश्चे'त्युणादिसूत्रेण इकाराकारयोर्लोपश्चादूप्रत्ययः। दर्द्रूस्त्वग्रोगविशेषऋ। तद्वान्— दद्र्रुणः। `समर्थाना'मित्यस्यापवादोऽयम्। अकृत सन्धेरकृतयणादेशस्याऽञ्चतेर्लोपः, चकारान्नप्रत्यय इत्यर्थः। यदि तु कृते यणादेशे उत्तरपदलोपः स्यात्तदा विलिलोपे सति `विष्ण'इति स्यात्। विषुण इति। विषु=नाना अञ्चन्तीति विष्वञ्चि, तान्यस्य सन्ति विषुणः=विषुवदाख्यः कालः। तस्य हि नानागतानि दिनानि सन्ति। दिनान्तराणां न्यूनाधिकभावस्य तन्मूलत्वात्। अयं भावः—-विषुवति दिनानां समतायां जातायामग्रे न्यूनान्यधिकानि च दिनानि भवेयुरिति नानागतदिनवत्त्वं यद्यपि विषुवति नास्ति तथापि नानागतदिमूलङूतदिनानां सत्त्वात्तथोच्यत इति। तथा नानागमनवत्त्वान्मृत्युर्वायुरव्यवस्थितचितश्च `विषुण'शब्देनोच्यते। क्रियया कर्मत्वेन संबन्धः। कृद्ग्रहणात्तद्धितप्रयोगे षष्ठी न, कृतपूर्वी कटमितिवत्। ननु प्रकर्षेण जानातीति प्रज्ञः, स एव प्रज्ञा इत्यणि कृते सिद्धमिष्टं, किमत्र प्रज्ञाग्रहणेनेत्याशङ्कां निराकुर्वन्नाह—प्राज्ञेति। स्त्रियां टाप्। `प्रज्ञादिभ्यश्चे'त्यणि तु `ङीप् स्यादिति भावः। वृत्तेश्चेति। वार्तिकमिदम्। काशिकाकृता तु वृत्तिशब्दः सूत्रे प्रक्षिप्तः। विच्छिन्नस्य प्रतिविधानं—वृत्तिः।
TBD.