Table of Contents

<<5-1-69 —- 5-1-71>>

5-1-70 स्थालीबिलात्

प्रथमावृत्तिः

TBD.

काशिका

छयतौ अनुवर्त्तेते स्थालीबिलशब्दाच् छयतौ प्रत्ययौ भवतः तदर्हति इत्यस्मिन्नर्थे। ठको ऽपवादौ। स्थालीबिमलर्हन्ति स्थालीबिलीयाः तण्डुलाः, स्थालीबिल्याः। पाक्योग्याः इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1711 स्थालीबिलात्। छयतावनुवर्तेते, तदर्हतीति च।

तत्त्वबोधिनी

1322 स्थालीबिलात्। छयतावनुवर्तेते। अस्माच्छयतौ स्तः। ठकोऽपवादः। पाकयोग्या इति। त्रिष्फलीकृता इति यावत्।

Satishji's सूत्र-सूचिः

TBD.