Table of Contents

<<5-1-68 —- 5-1-70>>

5-1-69 कडङ्करदक्षिणाच् छ च

प्रथमावृत्तिः

TBD.

काशिका

कडङ्करदक्षिणाशब्दाभ्यां छः प्रत्ययो भवति, चकाराद् यत् च, तदर्हति इत्यस्मिन् विषये। ठको ऽपवादः। कडङ्करम् अर्हति कडङ्करीयो गौः, कडङ्कर्यः। दक्षिणाम् अर्हति दक्षिणीयो भिक्षुः, दक्षिण्यो ब्राह्मणः। दक्षिणशब्दस्य अल्पाच्तरस्य अपूर्वनिपातेन लक्षणव्यभिचारचिह्नेन यथासङ्ख्याभावं सूचयति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1710 कडङ्करदक्षिणाच्छ च। `कडमदे' कडनं कडः=मजः। `घञर्थे कविधान'मिति कः। खजिति। तथा च `खित्यनव्ययस्ये'ति मुमिति भावः। कडङ्करं च दक्षिणा चेति समाहारद्वन्द्वात्पञ्चमी।

तत्त्वबोधिनी

1321 कडङ्करदक्षिणाच्छ च। `कडङ्गरे'ति पाठस्तूपेक्ष्य इति ध्वनयति—कडं करोतीति। `कड मदे'। कडतीति कडः। माषमुद्नादिकाष्ठमिति। अमरश्चाह `कडङ्करो बुसं क्लीब 'मिति। गौरिति। `नीवारपाकादिकडङ्करीयैः'इति रघुः।

Satishji's सूत्र-सूचिः

TBD.