Table of Contents

<<5-1-104 —- 5-1-106>>

5-1-105 ऋतोरण्

प्रथमावृत्तिः

TBD.

काशिका

तदस्य प्राप्तम् इत्यनुवर्तते। ऋतुशब्दात् तदिति प्रथमासमर्थातस्य इति षष्ठ्यर्थे अण् प्रत्ययो भवति तदस्य प्राप्तम् इत्येतस्मिन् विषये। ऋतुः प्राप्तो ऽस्य आर्तवं पुष्पम्। तदस्य प्रकरणे उपवस्त्रादिभ्यः उपसङ्ख्यानम्। उपवस्ता प्राप्तो ऽस्य औपवस्त्रम्। प्राशिता प्राप्तो ऽस्य प्राशित्रम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1746 ऋतोरण्। प्राप्तमित्येव। प्राप्तोऽस्येत्यर्थे प्रथमान्तादृतोरणित्यर्थः। आर्तवमिति। अणि ओर्गुणः, आदिवृद्धिः। रपरत्वम्।

तत्त्वबोधिनी

1344 आर्तवमिति। `पुष्प'मित्यादि विशेष्यं बोध्यम्।

Satishji's सूत्र-सूचिः

TBD.