Table of Contents

<<4-4-8 —- 4-4-10>>

4-4-9 आकर्षात् ष्ठल्

प्रथमावृत्तिः

TBD.

काशिका

आकर्षशब्दाद् ष्थल् प्रत्ययो भवति चरति इत्येतस्मिन्नर्थे। ठको ऽपवादः। लकारः स्वरार्थः। षकारो ङीषर्थः। आकर्षेण चरति आकर्षिकः। आकर्षिकी। आकर्षः इति सुवर्णपरीक्षार्थो निकषोपलः उच्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1536 आकर्षात्ष्ठल्। तेन चरतीत्यर्थे तृतीयान्तादाकर्षशब्दात्ष्ठलित्यर्थः।

तत्त्वबोधिनी

1192 पाठान्तरमिति। एतच्च भ्वादौ `कषखषे'त्यादिदण्डके `आकषात्ष्ठ'लिति माधवेनोपन्यस्तम्। किन्तु `आकर्षात्पर्पादे'रिति वार्तिकस्याननुगुणम्। तत्र हि नीरेफपाठे वृत्ताऽसङ्गप्रसङ्गात्।

Satishji's सूत्र-सूचिः

TBD.