Table of Contents

<<4-4-66 —- 4-4-68>>

4-4-67 श्राणामांसओदनाट् टिठन्

प्रथमावृत्तिः

TBD.

काशिका

श्राणामांसओदनशब्दाभ्यां टिठन् प्रत्ययो भवति तदस्मै दीयते नियुक्तम् इत्येतस्मिन्नर्थे। ठको ऽपवादः। इकार उच्चारणार्थः। टकारो ङीबर्थः। श्राणा नियुक्तम् अस्मै दीयते श्राणिकः। श्राणिकी। मांसौदनिकः। मांसौदनिकी। अथ ठञेव कस्मान् न उक्तः, न ह्यत्र ठञष् टिठनो वा विशेषो ऽस्ति? मांसौदनग्रहणं सङ्घातविगृहीतार्थं केचिदिच्छन्ति, तत्र वृद्ध्यभावो विशेषः। ओदनिकः। ओदनिकी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1598 श्राणामांस। `तदस्मै दीयते नियत'मित्येव। श्राणा=यवागूः। `यवागूरुष्णिका श्राणा विलेपी तरला च से'त्यमरः। टित्त्वं ङीबर्थम्। तदाह–श्राणिकीति। सङ्घातविगृहीतार्थमिति। ठकैव सिद्धे `ओदनिक' इत्यत्र आदिवृद्ध्यभावार्थं प्रत्ययान्तरविधानमिति भावः।

तत्त्वबोधिनी

1230 श्राणा। `यवागूरुष्णिक श्राणा विलेपी तरला च से 'त्यमरः। टिठनिति। इकार उच्चारणार्थः। टो ङीबर्थः। सङ्घातविगृहीतार्थमिति। `ओदनिक'इत्यत्र हि वृद्धिनिवारणाऽयं टिठन्नारब्धः। अन्यथा लाघवाट्ठञमेव ब्राऊयादिति भावः।

Satishji's सूत्र-सूचिः

TBD.