Table of Contents

<<4-3-70 —- 4-3-72>>

4-3-71 छन्दसो यदणौ

प्रथमावृत्तिः

TBD.

काशिका

छन्दःशब्दाद् भवव्याख्यानयोरर्थयोः यदणौ प्रत्ययौ भवतः। द्व्यचः इति ठकि प्राप्ते वचनम्। छन्दस्यः छान्दसः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1429 छान्दसो यदणौ। `तस्य व्याख्याने, तत्राभवे चे'ति शेषः। छन्दस्य छान्दस इति। छन्दसां व्याख्यानः, तत्र भवो वेत्यर्थः। द्व्यज्लक्षणस्य वक्ष्यमाणस्य ठकोऽपवादः।

तत्त्वबोधिनी

1119 छन्दसो। छन्दः–शब्दाद्भवव्याख्यानयोरर्थयोर्यदणौ स्तः। व्द्यज्लक्षणस्य ठकोऽपवादः। छन्दस्य इत्यादि। इहार्थयोर्यदण्भ्यां यथासङ्ख्यं न भवत्यस्वरितत्वादिति बोध्यम्।

Satishji's सूत्र-सूचिः

TBD.