Table of Contents

<<4-3-69 —- 4-3-71>>

4-3-70 पौराडाशपुरोडाशात् ष्ठन्

प्रथमावृत्तिः

TBD.

काशिका

पौराडाशशब्दात् पुरोडाशशब्दाच् च भवव्याख्यानयोरर्थयोः ष्ठन् प्रत्ययो भवति। पुरोडाशाः पिष्टपिण्डाः, तेषां संस्कारको मन्त्रः पौरोडाशः, तस्य व्याख्यानः तत्र भवो वा पौरोडाशिकः, पौरोडाशिकी। पुरोडाशसहचरितो ग्रन्थः पुरोडाशः, तस्य व्याख्यानस् तत्र भवो वा पुरोडाशिकः, पुरोडाशिकी। षकारो ङीषर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1428 पौरोडाश। `उक्तविषये' इति शेषः। पुरोडाशेति। पुरोडाशशब्दसहितो मन्त्रो लक्षमया पुरोडाश इत्युच्यत इत्यर्थः। स एव पौरोडाश इति। प्रज्ञादित्वात्स्वार्थेऽणिति भावः। पौरोडाशिक इति। पौरोडाशात्ष्ठनि रूपम्। पुरोडाशिक इति। पुरोजाशशब्दात्ष्ठनि रूपम्। षित्त्वान्ङीष्। पौरोडाशिकी– पुरोडाशिकी।

तत्त्वबोधिनी

1118 पौरोडाश। षित्त्वन्ङीष्। पौरोडाशिकी। पुरोडाशिकी। पुरो दाश्यते इति `पुरोडाषः'। `दाश्रृ दाने'कर्मणि घञि इहैव निपातनाद्दस्य डत्वम्।

Satishji's सूत्र-सूचिः

TBD.