Table of Contents

<<4-3-31 —- 4-3-33>>

4-3-32 सिन्ध्वपकराभ्यां कन्

प्रथमावृत्तिः

TBD.

काशिका

सिन्धुशब्दादपकरशब्दाच् च कन् प्रत्ययो भवति तत्र जात 4-3-25 इत्येतस्मिन् विषये। सिन्धुशब्दः कच्छादिः, ततो ऽणि मनुष्यवुञि च प्राप्ते विधानम्। अपकरशब्दादपि औत्सर्गिके ऽणि। सिन्धुकः। अपकरकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1384 सिन्ध्वपकराभ्यां कन्। सिन्धुक इति। सिन्धौ जात इत्यर्थः। कच्छादीति। `कच्छादिभ्यश्चे'त्यणि `मनुष्यतत्स्थयोश्चे'ति वुञि च प्राप्तेऽयं कन्विधिरित्यर्थः। अपकरक इति। अपकरे जात इत्यर्थः। अणि प्राप्ते इति। `कन्विधि'रिति शेषः।

तत्त्वबोधिनी

1079 सायंचिरं।नन्वन्तरङ्गत्वात्प्रथमं तुटि `मृत्यु'रित्यादाविव त्युशब्दस्य प्रत्ययतया अङ्गसंज्ञानिमित्तं यो युस्तस्य विधीयमानोऽनादेशो न स्यात्। न चैवं तुगेव क्रियतामिति वाच्यं, तस्य पूर्वान्तत्वेन विसर्गाऽभावात्प्रतस्तनमित्यत्र सत्त्वाऽभावप्रसङ्गात्ष अत आह—तुटः प्रागिति। इत्यादिति। आदिशब्देन `घकालतनेषु'इति ग्राह्रम्। सायंतनमिति। स्यतेर्घञि सायशब्दोऽकारान्तो दिवसावसाने रूढः, तस्य प्रत्ययसंनियोगेन मान्तत्वं निपात्यत इथि वार्तिककृन्मतम्।भाष्यकृतातु `मान्ताव्यय'मित्याश्रित्य सायंग्रहणं प्रत्याख्यातम्। न चैव सायशब्दात्कालाट्ठञि अनिष्टरूपप्रसङ्गः। तस्य कालवाचित्वाऽभावादनभिधानाद्वेत्याहुः। चिरंतनमिति। चिरशब्दस्यापि प्रत्ययसंनियोगेन मान्तता निपात्यत इति भावः। अत्र वदन्ति–स्वरादौ पाठादव्ययत्वादेव सिद्धे सूत्रे चिरमित्येतद्व्यर्थम्। न चादन्ताच्चिरशब्दाट्ठञ्स्यादिति वाच्यम्, त्नेन बाधादिति। एदन्तत्वमिति। प्राह्णः सोढोऽस्य प्राह्णतनमित्याद्यर्थम्। तत्र हि सप्तमी नास्ति। जातार्थे `घकालतनेषु'इत्युलुकाऽपि सिद्धेः। चिरत्नमिति। सूत्रे चिरशब्दस्योपादानाट्ट\उfffदुट\उfffदुलावपि स्तः। न चैवं सूत्रे चिरशब्दस्य प्रत्याख्यानं न संभवतीति वाच्यम्, मान्ताव्ययादेव ट\उfffदुट\उfffदुल्विधौ तत्संभवात्। पुरुत्=पूर्वस्मिन्वत्सरे। परारि=पूर्वतरे। अग्रादि। डिमचो डित्त्वं स्पष्टार्थम्।

Satishji's सूत्र-सूचिः

TBD.