Table of Contents

<<4-3-144 —- 4-3-146>>

4-3-145 गोश् च पुरीषे

प्रथमावृत्तिः

TBD.

काशिका

गोशब्दात् पुरीषे ऽभिधेये मयट् प्रत्ययो भवति। गोमयम्। पुरीषे इति किम्? गव्यं पयः। पुरीषं न विकारो न च अवयवः, तस्य इदं विषये विधानम्। विकारावयवयोस् तु गोपयसोर्यतं वक्ष्यति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1117 गोः पुरीषं गोमयम्..

बालमनोरमा

1504 गोश्च पुरीषे। `नित्यं मय'डित्यनुवर्तते। गोमयमिति। यद्यपि पुरीषं न गोर्विकारो नाप्यवयवस्तथापि त्सयेदमित्यर्थेऽयं प्रत्ययः।

तत्त्वबोधिनी

1172 गोस्च पुरीषे। पुरीषं न विकारो, नाप्यवयवः, तथापि `तस्येद' मित्यर्थेऽयं प्रत्ययः। विकारावयवोस्तु गोपयसोर्यतं वक्ष्यति। पुरीषे किम्?। गव्यं पयः।

Satishji's सूत्र-सूचिः

TBD.