Table of Contents

<<4-3-123 —- 4-3-125>>

4-3-124 हलसीराट् ठक्

प्रथमावृत्तिः

TBD.

काशिका

हलसीरशब्दाभ्यां ठक् प्रत्ययो भवति तस्य इदम् इत्यस्मिन् विषये। अणो ऽपवादः। हलस्य इदं हालिकम्। सैरिकम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1483 हलसीराट्ठक्। तस्येदमित्येव। हालिकं सैरिकमिति। हलस्येदं, सीरस्येगदमिति विग्रहः।

तत्त्वबोधिनी

–

Satishji's सूत्र-सूचिः

TBD.