Table of Contents

<<4-3-114 —- 4-3-116>>

4-3-115 उपज्ञाते

प्रथमावृत्तिः

TBD.

काशिका

तेन इत्येव। तृतीयासमर्थातुपज्ञाते इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति। विना उपदेशेन ज्ञातमौपज्ञातं, स्वयम् अभिसम्बद्धम् इत्यर्थः। पाणिनिना उपज्ञातं पाणिनीयम् अकालकं व्याकरणम्। काशकृत्स्नं गुरुलाघवम्। आपिशलं दुष्करणम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1474 उपज्ञाते। तेनोपज्ञातमित्यर्थे तृतीयान्ताद्यर्थाविहितं प्रत्ययाः स्युरित्यर्थः। उपज्ञातं-प्रथमज्ञातम्।

तत्त्वबोधिनी

1151 उपज्ञाते। विनोपदेशं ज्ञातम्–उपज्ञातम्।

Satishji's सूत्र-सूचिः

TBD.