Table of Contents

<<4-2-94 —- 4-2-96>>

4-2-95 कत्र्यादिभ्यो ढकञ्

प्रथमावृत्तिः

TBD.

काशिका

कत्रि इत्येवम् आदिभ्यो ढकञ् प्रत्ययो भवति। कात्रेयकः। औम्भेयकः। कत्रि। उम्भि। पुष्कर। मोदन। कुम्भी। कुण्डिन। नगर। वञ्जी। भक्ति। माहिष्मती। चर्मण्वती। ग्राम। उख्या। कुड्याया यलोपश्च। कत्र्यादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1296 कत्र्यादिभ्यो। कत्रय इति। `कुगतिप्रादयः' इति कुशब्दस्य समासः। `त्रौ चे'ति कोः कदादेशः। कात्रेयक इति। ढकञ्, ञकारस्य एयादेशः। `लोपो व्यो'रिति यलोपः। अनुवृत्तेरिति। स्वरितत्वादिति भावः। तथाच ग्रामशब्दाड्ढकञपि लभ्यते इत्यर्थः।

तत्त्वबोधिनी

1039 कुत्सितास्त्रय इति। इह बहुव्रीहिरपि सुवचः। इहैव निपातनात्कोः कद्भावः। `कद्भावे त्रावुपसङ्ख्यान'मिति तु प्रत्याख्येयम्।

Satishji's सूत्र-सूचिः

TBD.