Table of Contents

<<4-2-93 —- 4-2-95>>

4-2-94 राष्ट्रावारपाराद् घखौ

प्रथमावृत्तिः

TBD.

काशिका

राष्ट्र अवारपार इत्येताभ्यां यथासङ्ख्यं घखौ इत्येतौ प्रत्ययौ भवतः। राष्ट्रियः। अवारपारीणः। विगृहीतादपि इष्यते। अवारीणः। पारीणः। विपरीताच् च। पारावारीणः। प्रकृतिविशेष उपादानमात्रेण तावत् प्रत्यया विधीयन्ते। तेषां तु जातादयो ऽर्थाः समर्थविभक्तयश्च पुरस्ताद् वक्ष्यन्ते। ग्रामाद् यखञौ 4-2-93। ग्रामशब्दात् य खञित्येतौ प्रत्ययौ भवतः। ग्राम्यः, ग्रामीणः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1073 ग्राम्यः. ग्रामीणः..

बालमनोरमा

1295 ग्रामाद्यखञौ। ग्राम्य इति। यप्रत्यये `यस्येति चे'ति लोपः। ग्रामीण इति। खञ ईनादेशः, णत्वम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.