TBD.
सो ऽस्य इति समर्थविभक्तिः, प्रत्ययार्थश्च अनुवर्तते। प्रथमासमर्थविशेषणं प्रयोजनं योद्धारश्च। प्रत्ययार्थविशेषनं सङ्ग्रामः। प्रयोजनवाचिभ्यः योद्धृवाचिभ्यश्च शब्देभ्यः प्रथमासमर्थेभ्यः अस्य इति षष्ठ्यर्थे सङ्ग्रामे ऽभिधेये यथाविहितं प्रत्ययो भवति। भद्रा प्रयोजनम् अस्य सङ्ग्रामस्य भद्रः सङ्ग्रामः। सौभद्रः। गौरिमित्रः। योद्धृभ्यः आहिमाला योद्धारो ऽस्य सङ्ग्रामस्य आहिमालः। स्यान्दनाश्वः। भारतः। सङ्ग्रामे इति किम्? सुभद्रा प्रयोजनम् अस्य दानस्य। प्रयोजनयोद्धृभ्यः इति किम्? सुभद्रा प्रेक्षिका ऽस्य सङ्ग्रामस्य।
TBD.
–
1246 संग्रामे। अनुवर्तते इति। तथाच `संग्रामे' इति सप्तम्यन्तं षष्ठ\उfffदा विपरिणतमस्येत्यनेनान्वेति। तदस्य सङ्ग्रामस्य प्रयोजनं, तेऽस्य सह्ग्रामस्य योद्धार इत्यर्थे प्रयोजनयोद्धृवाचिभ्यः प्रतमान्तेभ्योऽणादयः स्युरित्यर्थः।
1012 संङ्ग्रामे। ननु `प्रथमा'दित्यधिकारात्प्रथमोच्चारितसङ्ग्रामवाचिन एव प्रत्ययः प्राप्नोति, न प्रयोजनयोद्धृभ्य इत्यत आह–सोऽस्येतीति। एवं च प्रथमान्तविशेषणद्वारा प्रयोजनयोद्धृणां प्रकृतित्वम्। `अस्ये'ति प्रत्ययार्थविशेषणद्वारा संग्रामस्य प्रत्ययर्थत्वं वक्तुं शक्यमिति भावः। तता चयमिह सूत्रार्थः–प्रयोजनवाचिभ्यो योद्धृवाचिभ्यश्च प्रथमान्तेभ्योऽस्येति षष्ठ\उfffद्न्तार्थेऽण् स्यात्, स च षष्ठ\उfffदान्तार्थः। संग्रामश्चेदिति।
TBD.