Table of Contents

<<4-2-54 —- 4-2-56>>

4-2-55 सो ऽस्याऽदिरिति च्छन्दसः प्रगाथेषु

प्रथमावृत्तिः

TBD.

काशिका

स इति समर्थविभक्तिः। अस्य इति प्रत्ययार्थः। आदिः इति प्रकृतिविशेषनम्। इतिकरणो विवक्षार्थः। छन्दसः इति प्रकृतिनिर्देशः। प्रगाथेषु इति प्रत्ययार्थविशेषणम्। स इति प्रथमासमर्थादस्य ति षष्ट्यार्थे यथाविहितं प्रत्ययो भवति, यत् प्रथमासमर्थं छन्दश्चेत् तदादिर् भवति, यत् तदस्य इति निर्दिष्टं प्रगाथाश्चेत् ते भवन्ति, इतिकरणस् ततश्चेद् विवक्षा। पङ्क्तिरादिरस्य पाङ्कतः प्रगाथः। आनुष्टुभः। जागतः। आदिः इति किम्? अनुष्टुब्ः मध्यम् अस्य प्रगाथस्य। छन्दसः इति किम्? उदुत्यशब्द आदिरस्य प्रगाथस्य। प्रगाथेषु इति किम्? पङ्क्तिरादिरस्य अनुवाकस्य। प्रगाथशब्दः क्रियानिमित्तकः क्वचिदेव मन्त्रविशेषे वर्तते। यत्र द्वे ऋचौ प्रग्रथनेन तिस्रः क्रियन्ते, स प्रग्रथनात् प्रकर्षगानाद् वा प्रगाथः इत्युच्यते। छन्दसः प्रत्ययविधाने नपुंसके स्वार्थ उपसङ्ख्यानम्। त्रिष्टुबेव त्रैष्टुभम्। जागतम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1245 सोऽस्यादिः। ऋग्द्वयमाम्नातं पादावृत्त्या ऋक्त्रयं संपद्यते। स च `संप्रगाथ' इति छन्दोगसूत्रे बह्वचसूत्रे च प्रसिद्धम्। षष्ठ\उfffदेकवचनस्थाने सप्तमीबहुवचनमार्षम्। सोऽस्य प्रगाथस्य आदिरित्यर्थे प्रथमान्ताच्छन्दोविशेषवाचकदणादिप्रत्ययाः स्युरित्यर्थः। अक्षरेयत्ताविशेषो गायत्र्यादिश्छन्दः। पङ्क्तिरादिरिति। पङ्क्तिच्छन्दस्का ऋक् आदिर्यस्य प्रघाथस्य स पाङ्क्तः प्रगाथ इत्युच्यते इत्यर्थः। स्वार्थेऽणादिप्रत्ययस्योपसह्ख्यानमित्यर्थः। त्रैष्टुभमिति। क्लीबत्वं लोकात्।

तत्त्वबोधिनी

1011 सोऽस्यादिरिति। छन्दो नाम–अक्षरेयत्तानिबन्धनपङ्क्त्यादिरिह विवक्षितः। तद्वाचकात्प्रथमान्तदस्येत्यादिमति प्रत्ययः स्यात्, य आदिमान्स प्रगाथश्चेत्। प्रग्रथ्यत इति प्रगाथऋ। `ग्रन्थ संदर्भे'इत्यस्मात् `अकर्तरिच कारके'इति कर्मणि घञ्। पृषोदरादित्वाद्रेफनकारयोर्लोपः। अन्ये तु प्रगीयत इति प्रगाथः। `गै शब्दे'इत्यतः `उषिकुषिगार्तिभ्यः स्थन्'इत्याहुः। यत्र द्वे ऋचावावृत्त्या तिरुआः क्रियन्ते स प्रगाथः। प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते'इति न्यायेन क्लीबतेति भावः।

Satishji's सूत्र-सूचिः

TBD.