Table of Contents

<<4-2-136 —- 4-2-138>>

4-2-137 गर्तौत्तरपदाच् छः

प्रथमावृत्तिः

TBD.

काशिका

देशे इत्येव। गर्तौत्तरपदात् देशवाचिनः प्रातिपदिकात् छः प्रत्ययो भवति शैसिकः। अणो ऽपवादः। वाहीकग्रामलक्षणं च प्रत्ययं परत्वाद् बाधते। वृकगर्तीयम्। शृगालगर्तीयम्। श्वाविद्गर्तीयम्। उत्तरपदग्रहणं बहुच्पूर्वनिरासार्थम्। बाहुगर्तम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1342 गर्तोत्तरपदाच्छः। देशे इति। शेषपूरणम्। देशवाचिन इति यावत्। वृकगर्तीयमिति। वृकगर्तो नाम देशः। तत्र भव इत्यर्थः। ननु गर्ताच्छ इत्येतावतैव केवलगर्तशब्दस्य देशवाचित्वाऽभावाद्गर्तोत्तरपदादिति सिद्धे उत्तरपदग्रहणं व्यर्थमित्यत आह– उत्तरपदग्रहणमिति।

तत्त्वबोधिनी

–

Satishji's सूत्र-सूचिः

TBD.