TBD.
कद्रुकमण्डलुशब्दाभ्यां संज्ञायां विषये स्त्रियाम् ऊङ् प्रत्ययो भवति। अच्छन्दोर्थं वचनम्। कद्रूः। कमण्डलूः। संज्ञायाम् इति किम्? कद्रुः। कमण्डलुः।
TBD.
–
519 संज्ञायाम्। कद्रुकमण्जल्वोरिति ऊङिति चानुवर्तते, स्त्रियामित्यधिकृतम्। तदाह–कद्रकमणाडल्वोरित्यादि। अच्छन्दोऽर्थमिति। पूर्वसूत्रे छन्दसीत्युक्तत्वाल्लोके संज्ञायामप्राप्तावयमारम्भः। कद्रूरिति। नागानां मातुः संज्ञा। एतच्च महाभारतादौ स्पष्टम्। कमण्डलूरिति। कस्यचिन्मृगस्य संज्ञा। अत एव `चतुष्पाद्भ्यो ढ'ञित्यत्र कामम्जलेय इत्युदाहरिष्यते। पात्रपर्यायस्तु नोदाहरणं, तस्य स्त्रीलिङ्गत्वाऽभावात्।
468 कमण्डलुरिति। चतुष्पाज्जातिवाचतोऽयम्। अतएव `चतुष्पाभ्द्यो ढञ्'इत्यत्र `कामण्डवेय'इत्युदाहरिष्यति। पात्रपर्यायस्तु न प्रत्युदाहरणं, तस्य स्त्रीलिङ्गत्वाऽभावात्। अच्छन्दोर्थमिति। वेदे तु `कद्रुकमण्?डल्वोश्छन्दसी'त्यनेन संज्ञायामलसंज्ञायां चोङ् सिध्यतीति भावः। अञो योऽकार इति। अञा अकारविशेषणं किम्?। शूरसेनी। `जनपदशब्दा'दित्यञः `अतश्चे'ति लुकि जातिलक्षणोऽत्र ङीष्।
TBD.