Table of Contents

<<4-1-62 —- 4-1-64>>

4-1-63 जातेरस्त्रीविषयादयौपधात्

प्रथमावृत्तिः

TBD.

काशिका

जातिवाचि यत् प्रातिपदिकं न च स्त्रियाम् एव नियतम् अस्त्रीविषयम् अयकारोपधं च तस्मात् स्त्रियां ङीष् प्रत्ययो भवति। आकृतिग्रहणा जातिर् लिङ्गानां च न सर्वभाक्। सकृदाख्यातनिर्गाह्या गोत्रं च चरणैः सह। कुक्कुटी। सूकरी। ब्राह्मणी। वृषली। नाडायनी। चारायणी। कठी। बह्वृची। जातेः इति किम्? मुण्डा। अस्त्रीविषयातिति किम्? मक्षिका। अयोपधातिति किम्? क्षत्रिया। योपधप्रतिषेधे हयगवयमुकयमत्स्यमनुष्याणम् अप्रतिषेधः। हयी। गवयी। मुकयी। मत्सी। मनुषी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1272 जातिवाचि यन्न च स्त्रियां नियतमयोपधं ततः स्त्रियां ङीष् स्यात्. तटी. वृषली. कठी. बह्वृची. जातेः किम्? मुण्डा. अस्त्रीविषयात्किम्? बलाका. अयोपधात्किम्? क्षत्रिया. (योपधप्रतिषेधे हयगवयमुकयमनुष्यमत्स्यानामप्रतिषेधः). हयी. गवयी. मुकयी. हलस्तद्धितस्येति यलोपः. मनुषी. (मत्स्यस्य ङ्याम्). यलोपः. मत्सी..

बालमनोरमा

511 जातेरस्त्री। अर्थे कार्याऽसंभवाच्छब्दे कार्यं विज्ञायत इत्याह–जातिवाचीति। न च स्त्रियां नियतमिति। स्त्री विषयः=नियमेन वाच्या यस्या इति बहुव्रीहिणा स्त्रीविषयशब्दो नियतस्त्रीलिङ्गपरः। तथा च `अस्त्रीविषया'दित्यनेन अनियतस्त्रीलिङ्गादिति विवक्षितम्, नैयत्यलाभायैव विषयग्रहणम्। अन्यथा `अस्त्रिया' इत्येवावक्ष्यदिति भावः। ननु यदि `नित्यमेकमनेकानुगतं सामान्य'मिति तार्किकोक्ता जातिस्तर्हि शुक्लादिगुणस्य नित्यत्वैकत्वपक्षे शुक्लेत्यादावतिव्याप्तिः, औपगवी कठीत्यादावव्याप्तिश्च। `सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः' इत्यादिस्मृत्या जननेन यत् प्राप्यते ब्राआहृणत्वादि सा जातिश्चेद्युवत्वादावव्याप्तिः। तथा च युवतितरेत्यत्र `जातेश्चे'ति पुंवत्त्वनिषेधो न स्यादिति चेन्न, `आकृतिग्रहणा जातिः, लिङ्गानां च न सर्वभाक्। इति बाष्योक्तत्रिविधजातेर्विवक्षितत्वादित्यभिप्रेत्य भाष्योक्तत्रैविध्यं प्रपञ्चयति–आकृतिग्रहणा जातिरिति। `प्रथमे'ति शेषः। आकृतिः= अवयवसंनिवेशविशेषः। गृह्रते अनेनेति ग्रहणं=व्यञ्जकम्। करणे ल्युट्, सामान्ये नपुंसकम्। आकृतिग्र्रहणं यस्या इति विग्रहः। उपसर्जनत्वात् `टिड्ढाणञि'ति ङीब्न। फलितमाह–अनुगतेति। सर्वासु घटादितत्तद्व्यक्तिषु एकरूपतत्तदाकारव्यङ्ग्येति यावत्। गृह्रते इति कर्मणि ल्युट्, आकृत्या ग्रहणा आकृतिग्रहणेति तु न व्याख्येयम्, `टिड्ढाणञ्'इति ङीप्प्रसङ्गात्। तटीति। `तटं त्रिषु' इत्यमरः। जलसमीपप्रदेश आकृतिविशेषविशिष्टस्तटःष अतस्तटत्वमाकृतिव्यङ्ग्यत्वाज्जातिः, अतस्तटशब्दस्य जातिवाचित्वादिनियतस्त्रीलिङ्गत्वादयोपधत्वाच्च ङीषिति भावः। युवत्वादिकमप्याकृतिव्यङ्ग्यत्वाज्जातिरेव। अनेन प्रथमलक्षणेन अनुगताकारप्रत्ययसिद्धा तटत्वादिजातिरुक्ता। जातित्वं न स्यात्, तदवयवसंनिवेशस्य ब्राहाहृणादिसाधारणत्वेन वृषलत्वादीनां तद्व्यङ्ग्यत्वाऽभावादित्याशङ्क्याह-लिङ्गानां च न सर्वभाक्। सकृदाख्यातनिग्र्राह्रेति। `अन्या जाति'रिति शेषः। लिङ्गानामिति कर्मणी षष्ठी। सर्वाणि लिङ्गानि न भजते इत्यर्थः। निग्र्राह्रेत्यस्य व्यक्त्यन्तरे उपदेशं विनापि सुगमेत्यर्थः, निरित्युपसपर्गवशात्। निग्र्राह्रेत्यनन्तरम्-`अन्या जाति'रिति शेषः। फलितमाह–असर्वेति। एकस्यामिति। एकस्यां व्यक्तौ वृषल इत्युपदेशाद्व्यक्त्यन्तरे तदुपदेशं विनापि सुगमेति यावत्। लक्षणान्तरमिति। जात्यन्तमित्यर्थः। अन्यथोक्ततटत्वादिजातेरेव `आकृतिग्रहणा जातिः' इत्युक्तलक्षणादन्यदिदं लक्षणमिति स्यात्, नहीदं युज्यते, तटस्य सर्वलिङ्गत्वात्। वृषलीति। वृषलत्वं ह्रसर्वलिङ्गं, नपुंसकत्वाऽभावात्, एकस्यां व्यक्तौ वृषलत्वे उपदिष्टे सति तदपत्यसहोदरादिषु तदुपदेशं विना तस्य सुग्रहत्वात्सकृदाख्यातनिग्र्राह्रं चेति भावः। ब्राआहृणत्वं तु पुत्रपौत्रादौ यद्यपि न सुगमं, ब्राआहृणात्क्षत्रियायामुत्पन्नस्य ब्राआहृणत्वाऽभावात्, तथापि पित्रादौ सुगममेव। एवं क्षत्रियत्वं वैश्यत्वं च तत्पित्रादावेव सुग्रहम्। सत्यन्तं किमिति। असर्वलिङ्गत्वे सतीति किमर्थमित्यर्थः। शुक्लेति। `बलाके'ति शेषः। `गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति' इति कोशाद्विशेष्यनिघ्नतया त्रिलिङ्गत्वादसर्वलिङ्गत्वाऽभावाच्छुक्लत्वं न जातिः। अवयवसंस्थानव्यङ्ग्यत्वाऽभावान्न पूर्वलक्षणमपि। देवदत्तेति। संज्ञात्वेन नपुंसकलिङ्गहीनतया असर्वलिङ्गत्वेऽपि न सकृदाख्यातनिग्र्राह्रत्वमिति भावः। अनेन द्वितीयलक्षणेन जनननिमित्तकब्राआहृणत्वादिजातिसङ्ग्रहः।\त् कठीत्याद्यसङ्ग्रहः, औपगवत्वादेरनुगतसंस्थानव्यङ्ग्यत्वाऽभावात्, सर्वलिङ्गत्वाच्चेत्यत आह–गोत्रं च चरणैः सहेति। `जाति'रित्यनुषज्यते। गोत्रशब्देन अपत्यं विवक्षितं, नतु पौत्रप्रभृतीति परिभाषिकं, व्याख्यानात्। अत एवानन्तरापत्यप्रत्ययान्ते अवन्तीत्यत्र जातिप्रयुक्तो ङीषिति `अनुपसर्जना'दिति सूत्रस्थभाष्यं सङ्गच्छते। शब्देन्दुशेखरे तु पारिभाषिकमेव गोत्रमिह विवक्षितमिति प्रपञ्चितम्। चरणशब्दस्तु शाखाध्येतरि प्रसिद्धः। चरणैः सह गोत्रं जातिरिति लभ्यते। गोत्रं चरणाश्च जातिरिति यावत्। यद्यपि अनुगताकारप्रत्ययवेद्या जननविशेषप्रयुक्ता चेति द्विविधैव जातिर्लोके प्रसिद्धा। तत्र गोत्रचरणा नान्तर्भवन्ति। तथापि `?त\उfffद्स्मस्तच्छब्दस्तद्वाचिषु शब्देषु तत्कार्यार्थ' इत्यभिप्रेत्य व्याचष्टे–अपत्यप्रत्ययान्त इत्यादिना। गोत्रमुदाहरति–औपगवीति। उपगोरपत्यं स्त्रीत्यर्थे `तस्यापत्य'मित्यणि `टिड्ढाण'ञिति ङीपं बाधित्वा परत्वादनेन ङीष्। स्वरे भेदः। चरममुदाहरति–कठीति। कठेन प्रोक्तमधीयानेत्यर्थः। कलापीति वैशम्पायनान्तेवासित्वनिबन्धनो णिनिः। `कठचरकाल्लु'गिति तस्य लुक्। ततः `तदधीते'इत्यणः `प्रोक्ताल्लु'गिति लुक्, ततो ङीष्। चरणविषये उदाहरणान्तरमाह– वह्वृचीति। बहव ऋचोऽध्येया यस्या इति विग्रहः। `ऋक्पूरब्धूःपथामानक्षे' `अनृचबह्वृचावध्येतर्येव' इत्यच्समासान्तः, ततो ङीष्। `पुरा कल्पे तु नारीणां मौञ्जीबन्धनमिष्यते। अध्यापनं च वेदानां सावित्रीवचनं तथा।' इति यमादिस्मृतिः। ननु `लिङ्गानां च न सर्वभाक्' इति `गोत्रं च चरणैः सहे'ति च जातिलक्षणे ब्राआहृणीति परित्यज्य वृषली औपगवीत्येव कुत उदाह्मतमित्यत आह–ब्राआहृणीत्यत्रेति। ब्राहृणोऽपत्यमित्यर्थे `तस्यापत्यम्' इत्यणि `ब्राआहृओऽजातौ' #इति टिलोपाऽभावे आदिवृद्धौ ब्राआहृणशब्दः। स्त्रियां तु जातिलक्षणं ङीषं बाधित्वा `शाङ्र्गरवाद्यञो ङी'निति ङीन्, शाङ्र्गरवादिगणे तत्पाठस्य निरवकाशत्वादिति भावः। तदेवं जातिस्वरूपमुक्त्त्वा ङीष्विधौ तद्ग्रहणस्य प्रयोजनं पृच्छति–जातेःकिमिति मुण्डेति। मुण्डत्वं नाम विलुप्तसर्वकेशत्वम्। तत्तु नाकृतिव्यङ्ग्यं, केशदशायामपि तदाकृतेः सत्त्वात्। नापि `लिङ्गानां चे'ति लक्षणलक्षितं, सर्वलिङ्गत्वात्। नापि गोत्रचरणान्तर्भूतं, अतो न जातिरिति भावः। अस्त्रीविषयात्किमिति। विषयग्रहणलभ्यं नियतत्वं प्रव#एश्य अनियतस्त्रीलिङ्गादिति किमर्थमित्यर्थः। बलाकेति। पक्षिवर्गे `बलाका विसकण्ठिका' इत्यमरः। बलाकात्वस्य आकृतिव्यङ्ग्यतया जातित्वेऽपि नियतस्त्रीलिङ्गत्वान्न ङीषित्यर्थः। यद्यपि बलां कायतीति यौगिकत्वे त्रिलिङ्गत्वमस्ति, तथापि प्रवृत्तिनिमित्तैक्यस्त्रीलिङ्गान्यलिङ्गरहितभिन्नादित्यर्थो विवहितम्। क्षत्रियेति। `लिङ्गानां च न सर्वभा'गिति जातिलक्षणसत्त्वेऽपि योपधत्वान्न ङीषिति भावः। वाच्य इत्यर्थः। हयीति। अ\उfffदाआ प्रसिद्धा। गवयीति। गोसदृशश्चतुष्पाज्जातिविशेषः। मुकयीति। चतुष्पाज्जातिविशेषः। हल इति। मनुष्यशब्दात्स्त्रियां ङीषि मनुष्य-ई इति स्थिते `हलस्तद्धितस्ये'ति यकारस्य लोपे `यस्येति चे'त्यकारलोपे मनुषीति रूपमित्यर्थः। `हलस्तद्धितस्ये'ति लोपप्रवृत्तये यकारस्य तद्धितावयवत्वं दर्शयितुमाह–मनोर्जाताविति। तद्धिताधिकारेऽपत्याधिकारस्थमिदं सूत्रम्। स्तः, प्रकृतेः षुक्च, प्रकृतिप्रत्ययसमुदायेन जातौ गम्यायामिति तदर्थः।मात्स्यशब्दान्ङीषि यकारस्य तद्धितावयवत्वाऽभावादप्राप्ते लोपे आह– मत्स्यस्य ङ्यामिति। `सूर्यतिष्ये'ति सूत्रे वार्तिकमिदम्। मत्स्यस्यावयवस्य यकारस्य लोपः स्यान्ङ्यामेवेति नियमार्तमिदम्। मत्सीति। ङीषि यकारलोपे `यस्येति चे'ति लोप इति भावः। ङ्यांकिम् ?। मात्स्योऽवतारः।

तत्त्वबोधिनी

461 जातेरस्त्री। जात्या स्ववाचकशब्दो लक्ष्यते, अर्थे कार्याऽसंभवात्, स्वरूपं तु न गृह्रते, अस्त्रीविषयादित्यादेर्वैथ्र्यापत्तेरित्याशयेनाह–जातिवाचि यदिति।\र्\नाकृतिग्रहणा जाति।आकृतिग्रहणेति। `ग्रहण'मिति करणे ल्युट्। सामान्ये नपुंसकम्। आकृतिग्र्रहणं यस्या इति बहुव्रीहिस्तदेतत्फलितमाह— अनुगतसंस्थानेत्यादि। वृषले ब्राआहृणादिव्यावृत्तसंस्थानाऽभावादव्याप्तिरिति लक्षणान्तरमाह—-लिङ्गानां चेत्यादि। चकारो भिन्नक्रमः `निग्र्रह्रे'त्यस्यानन्तरं बोध्यः।`लिङ्गाना'मिति कर्मणि षष्ठी। न सर्वभागिति। सर्वाणि लिङ्गानि न भजतीत्यर्थः। सर्वशब्दस्य लिङ्गापेक्षत्वेऽपि गमकत्वाद्भजो ण्विः समासश्च भवत्येवेति नात्र सामथ्र्याऽभावः शङ्क्यः। वृषलीति। एकस्यां हि व्यक्तौ वृषलत्वे कथिते तदपत्यतत्सहोदरादौ कथनं विनापि तस्य सुग्रहत्वादिति भावः देवदत्तेति। परिमाणभेदेन द्रव्यभेदाभ्युपगमे स्यादेवातिप्रसङ्गः, एकस्यां व्यक्तौ देवदत्तत्वे कथिते व्यक्त्यन्तरे कथनं विनापि तस्य सुग्रहत्वात्। मैवम्,–परिमाणभेदेन द्रव्यभेदस्य प्रामाणिकैरनभ्युपगमात्। अभ्युपगमे वा समानकालतया व्यक्त्यान्तरस्य विशेषणात्। तथा च यस्यां व्यक्तौ देवदत्तत्वं कथ्यतेतत्समकालमन्या देवदत्तव्यक्तिरप्रसिद्धेति न देवदत्तत्वं जातिः। वृषलत्वादिस्तु भवत्येव, तदीयपितृभ्रात्रादिषु तस्य सुग्रहत्वादिति दिक्। उक्तलक्षणद्वयानाक्रान्तत्वात्तृतीयं लक्षणमाह–। च चरणैः सहेति। अपत्याधिकारादन्यत्र लौकिकं गोत्रम्। चरणः–शाखाध्येता। तदेतत्फलितमाह—अपत्यप्रत्ययान्त इति। अत्र व्याचख्युः—`नाडायनं बह्वृचमिद'मिति नपुंसकप्रयोगदर्शनात्सर्वलिङ्गौ गोत्रचरणौ, अतः पृथग्लक्षणं कृतम्। तेनात्र `लिङ्गानां च न सर्वभा'गिति द्वितीयलक्षणेन गतार्थता न शङ्क्येति। औपगवीति। अण्णन्तलक्षणं ङीपं परत्वादयं बाधते। एवं चापत्याधिकारे `औपगवी'ति प्रतीकमुपादाय `टिड्ढाण'ञित्यादिना ङीबिति व्याचक्षाणा उपेक्ष्या इथि भावः। केचित्तु अपत्याधिकारादत्तुरत्रैव लौकिकं गोत्रं गोत्रशब्देन गृह्रते नान्यत्रेति पारिभाषितगोत्रप्रत्ययान्त एव जातिकार्यं लभते न त्वपत्यप्रत्ययान्तः। `गोत्रं च चरणैः सहे'ति वचनस्यापत्याधिकरात्पूर्वभावित्वात्। तथा चापत्यार्थे औपगवीति ङीबन्त इथि प्राचामुक्तिः सम्यगेवेत्याहुः। कठीति। कठेन प्रोक्तमधीयाना [वा]। `कलापिवैशंपायनान्तेवासिभ्यश्चे'ति वैशंपायनान्तेवासित्वाण्णिनिः। तस्य `कठचरकाल्लु'गिति लुक्। अध्येत्रणस्तु `प्रोक्ताल्लु'गित्यनेन। बह्वृचीति। बह्व्य ऋचोऽध्येतव्या यया सेति बहुव्रीहिः। अनृचबह्वृचावध्येतर्येवे'ति वचनात् `ऋक्पूरब्धू'रिति अप्रत्ययः समासान्तः। यद्यपि स्त्रीणामध्ययनं प्रतिषिद्धम्, तथापि पुराकल्पे ह्रेतदासीत्। तदाह यमः–`पुराकल्पे तु नारीणां मौञ्जीबन्धनमिष्यते। अध्यापनं च वेदानां सावित्रीवचनं तथा।'इति। यद्वा—`मा नामाऽध्यगीष्ट, तद्वश्यत्वात्ताच्छब्द्यं भविष्यति, यथाऽनधीयानेऽपि माणवके। ब्राआहृणीत्यत्रेति। एवं च प्राचो ङीबुदाहरणं प्रामादिकमिति भावः। मुण्डेति। मुण्डगुणयोगान्मुण्डा। `बलाका बिसकण्ठिका'। क्षत्त्रियेति। `क्षत्राद्धः'इत्यपत्ये घविधानाद्गोत्रलक्षणा, `लिङ्गानां च न सर्वे'त्यादिलक्षणा वा जातिः। इत्यादि। गौरादिषु गवादय इदानीन्तनैः प्रक्षिप्ता इत्यस्मादेव वार्तिकाद्विज्ञायत इति कैयटादयः।

Satishji's सूत्र-सूचिः

TBD.