TBD.
सखी अशिश्वी इत्येतौ शब्दौ ङीषन्तौ भाषायां निपात्येते। सखीयं मे ब्राह्मणी। न अस्याः शिशुरस्ति इति अशिश्वी। भाषायाम् इति किम्? सखा सप्तपदी भव। अशिशुम् इव मामयं शिशुरभिमन्यते।
TBD.
–
510 सख्यशि\उfffदाई। सखिशब्दादशिशुशब्दाच्च स्त्रियां ङीष् निपात्यते भाषायाम्। सौकिकप्रयोगो-भाषा। तर्हि वेदे नैव स्यादित्यत आह–इतिशब्द इति। `प्रकारे' इत्यनन्तरं `वर्तते' इति शेषः। प्रकारः=सजातीयता। भाषायामित्यस्येति। सच `इति'शब्दो भाषायामित्यस्यानन्तरं संनिवेश्यते इत्यर्थः। ततश्च भाषायां वेदे चेति फलितम्। नन्वेवं सति भाषायामिति व्यर्थमित्यत आह–तेनेति। भाषाग्रहणेन भाषायां सर्वत्र भवति, वेदे तु क्वचिदिति लभ्यत इत्यर्थः। सखीति। सखिशब्दान्ङीषि `यस्येति चे'ति खकारादिकारस्य लोपः। भाषायां किम् ?। `सखा सप्तपदा भव' अशि\उfffदाईति। न विद्यते शिशुर्यस्या इति विग्रहः। अशिशुशब्दान्ङीषि उकारस्य यण्। `अशि\उfffदाई शिशुना विना' इत्यमरः। छन्दस्यपि क्वचिदित्यस्योदाहरणमाह–आ धेनवो धुनयन्तामशि\उfffदाईरिति। अशि\उfffदाईशब्दाज्जसि `दीर्घाज्जसि चे'ति पूर्वसवर्णदीर्घनिषेधाऽभावश्छान्दसः।
460 सख्याशि\उfffदाईति। सखिशब्दादशिशुशब्दाच्च ङीष् निपात्यते। न विद्यते शिशुर्यस्याः सा अशि\उfffदाई। भाषायां किम्?। सखा सप्तपदी भव।
TBD.