TBD.
स्वाङ्गाच् च उपसर्जनातित्येवम् आदिविधिप्रतिषेधविषयः सर्वो ऽप्यपेक्ष्यते। यत्र ङीष् विहितस् तत्र तदपवादः। दिक्पूर्वपदात् प्रातिपदिकात् ङीप् प्रत्ययो भवति। स्वरे विशेषः। प्राङ्मुखी, प्राङ्मुखा। प्राङ्नासिकी, प्राङ्नासिका। इह न भवति, प्राग्गुल्फा, प्राक्क्रोडा, प्राग्जघना इति।
TBD.
–
508 दिक्पूर्वपदान्ङीप्। दिक्पूर्वपदं यस्येति विग्रहः। स्वाङ्गादित्यनुवर्तते। प्रातिपदिकादिति च।`अन्यतो ङीषि'त्यतो ङीषित्यनुवृत्तं षष्ठ\उfffदा विपरिणम्यते। तदाह–दिक्पूर्वेत्यादिना। प्राङ्मुखीति। प्राक् मुखं यस्या इति विग्रहः। ङीषो ङीब्विधेः फलमाह–आद्युदात्तं पदमिति। ङीपः पित्त्वादनुदात्तत्वे बहुव्रीहिप्रकृतिस्वरेणाद्युदात्तत्वम्। ङीषि तु प्रत्ययस्वरेणान्तोदात्तत्वं स्यादित्यर्थः। नच स्वतन्त्रो ङीबेव विधीयतामिति वाच्यं, तथा सति प्राग्गुल्फेत्यादावपि `असंयोगोपधा'दिति निषेधं बाधित्वा ङीप्प्रसङ्गात्। ङीषो ङीबादेशविधौ तु `स्वाङ्गाच्चोपसर्जनादसंयोगोपधा'दिति विहितङीषो ङीब्विधानान्न दोषः। `असंयोगोपधा'दित्यस्यानुवृत्त्यङ्गीकारे तु प्रतिपत्तिगौरवमिति भावः।
458 ङीषो ङीबादेश इति। `अन्यतो ङी'षित्यतो ङीषित्यनुवर्तते। `दिक्पूर्वपदा'दिति पञ्चम्या `ङी'षिति प्रथमायाः षष्ठी कल्प्यत इति भावः। यदि तु स्वतत्त्रो ङीप्स्यात्तर्हि `प्राग्गुल्फा' `प्राक्रोडे'त्यत्रापि प्रसज्येत, पूर्वोक्ताऽसंयोगोपधादित्यस्य निषेधानां चानुवृत्तौ प्रतिपत्तिगौरवमिति भावः। [प्राङिति।`निपाता आद्युदात्ताः'इति पूर्वपदे उदात्ते सति `बहुव्रीहौ प्रकृत्या पूर्वपद'मिति पूर्वपदप्रकृतिस्वरे सिद्धे ङीष् प्रत्ययस्वरेणोदात्त इति सेषनिघातः स्यात्, तन्माभूदिति ङीषो ङीबनुदात्तो विधीयत इति प्राङ्गुखीति पदमाद्युदात्तमिति भावः]
TBD.