TBD.
पतिशब्दस्य नकारादेशः स्त्रियां विधीयते, ङीप् प्रत्ययस् तु नकारान्तत्वादेव सिद्धः यज्ञसंयोगे। यज्ञेन संयोगः यज्ञसंयोगः। तत्साधनत्वात् फलग्रहीतृत्वात् वा यजमानस्य पत्नी। पत्नी वाचं यच्छ। यज्ञसंयोगे इति किम्? ग्रामस्य पतिरियं ब्राह्मणी कथं वृषलस्य पत्नी? उपमानाद् भविष्यति।
TBD.
–
483 पत्युर्नो। पत्युरिति षष्ठी। `न' इत्यकार उच्चारणार्थः। स्त्रियामित्यधिकृतम्। तदाह–पतिशब्दस्येति। यज्ञेनेति। यज्ञसंबन्धः=यज्ञेन सह स्वामितया संबन्धः। यज्ञफलभोक्तृत्वमिति यावत्। तदाह–तत्कर्तृकस्येति। वसिष्ठकर्तृकस्येत्यर्थः। ननु वसिष्ठकर्तृकयज्ञस्य वसिष्ठ एव फलभोक्तृत्युचितं, नतु तत्स्त्र्यपि, `स्वर्गकामः' इत्यादिपुंलिङ्गशब्दैः पुंस एवाधिकारावगमादित्यत आह–दम्पत्योः सहाधिकारादिति। एतच्च प्रकृतसूत्रे भाष्ये स्पष्टम्। अत एव पूर्वमीमांसायां षष्ठस्य प्रथमपादे `लिङ्गविशेषनिर्देशात्पुंयुक्तमैतिशायनः' इत्यधिकरणे `स्ववतोस्तु वचनादैककम्र्यं स्यात्' इत्यधिकरणे च दम्पत्योः सहाधिकारः सिद्धान्तितः। प्रपञ्चितं चैतदस्माबिरध्वरमीमांसाकुतूहलवृत्तौ।
–
TBD.