Table of Contents

<<4-1-31 —- 4-1-33>>

4-1-32 अन्तर्वत्पतिवतोर् नुक्

प्रथमावृत्तिः

TBD.

काशिका

प्रकृतिर् निपात्यते, नुगागम् अस्तु विधीयते। अन्तर्वत्पतिवतोर् नुक् भवति ङीप् च प्रत्ययः, स तु नकारान्तत्वादेव सिद्धः। निपातनसामर्थ्याच् च विशेषे वृत्तिर् भवति। अन्तर्वत् पतिवतिति गर्भभर्तृसंयोगे। इह न भवति, अन्तरस्यां शालायां विद्यते। पतिमती पृ\उ0304थीवी। अन्तर्वतिति मतुब् निपात्यते, वत्वं सिद्धम्। पतिवतिति वत्वं निपात्यते, मतुप् सिद्धः। अन्तर्वत्नी गर्भिणी। पतिवत्नी जीवपतिः। अन्तर्वत्पतिवतोस् तु मतुब्वत्वे निपातनात्। गर्भिण्यां जीवपत्यां च वा छन्दसि तु नुग्विधिः। सान्तर्वत्नी देवानुपैत्। सान्तर्वती देवानुपैत। पतिवत्नी तरुणवत्सा। पतिवती तरुणवत्सा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

482 अन्तर्वत्पतिवतोर्नुक्। नुक्स्यादिति। कित्त्वसामथ्र्यादयमागमः, नतु प्रत्यय इति भावः। कित्त्वादन्तावयवः। अन्तर्वत्-न, पतिवत्-न इति स्थिते आह–ऋन्नेभ्यो ङीबिति। गर्भिण्यामिति। गर्भिण्यां जीवद्भर्तृकायां च स्त्रियाम् अन्तर्वत्पतिवदिति प्रकृतिभागौ नुक्संनियोगेन निपात्येते इत्यर्थः। वार्तिकमेतत्। कतरस्मिन् किं निपात्यत इत्यत आह–तत्रेति। तयोर्मध्य इत्यर्थः। अन्तरस्त्यस्यां गर्भ इति विग्रहेऽप्राप्तो मतुप् निपात्यत इत्यन्वयः। कथमप्राप्तिर्मतुप इत्यत आह- -अन्तःशब्दस्येत्यादि, अभावादित्यन्तम्। `तदस्यास्त्यस्मिन्निति मतु'बिति सूत्रे अस्तिसमानाधिकरणात्कर्तृकारकप्रधानप्रथमान्तान्मतुप्प्रत्ययो विहितः। यथा गौरस्यास्तीति गोमानित्यादौ। प्रकृते प्रथमान्तः कर्तृकारकप्रधानो गर्भशब्द एवास्तिसमानाधिकरणो, नत्वन्तश्शब्दः, तस्याधिकरणकारकप्रधान तया अस्तिसामानाधिकरण्याऽसंभवात्। अतोऽत्राऽप्राप्तो मतुब्निपात्यत इत्यर्थः। ततश्च `मादुपधायाश्च मतोर्वः' इति मकारस्य वत्वेऽन्तर्वदिति प्रकृतिभागः संपद्यत इति भावः। वत्वमिति पतिरस्या अस्तीति विग्रहे `तदस्यास्त्यस्मिन्नि'ति मतुपो मकारस्य मादुपधात्परत्वाऽभावेन `मादुपधायाः' इति वत्वमप्राप्तं निपात्यत इत्यर्थः। प्रत्युदाहरणं त्विति। गर्भिण्यामेव मतुब्निपातनादन्तरस्त्यस्यां शालायां घट इति विग्रहवाक्यमेव, नतु मतुबित्यर्थः। पतिमती पृथिवीति। जीवद्भर्तृकायामेव वत्वनिपातनादिह वत्वाऽभाव इति भावः।

तत्त्वबोधिनी

436 प्रत्युदाहरणं त्विति। `अन्तर्वती'`पतिवती'ति प्राचोक्तं प्रत्युदाहरणमयुक्तमिति भावः। [आद्येऽस्तिसामानाधिकरण्याभावान्मतुपोऽसंभवात्, द्वितीये तु वत्त्वाऽसंभवादिति भावः]।

Satishji's सूत्र-सूचिः

TBD.