Table of Contents

<<4-1-154 —- 4-1-156>>

4-1-155 कौशल्यकार्मार्याभ्यां च

प्रथमावृत्तिः

TBD.

काशिका

कौशल्यकार्मार्यशब्दाभ्याम् अपत्ये फिञ् प्रत्ययो भवति। इञो ऽपवादः। कौशल्यायनिः। कार्मार्यायणिः। परमप्रकृतेरेव अयं प्रतययः इष्यते, कौशलस्य अपत्यं, कर्मारस्य पत्यम् इति। प्रत्ययसन्नियोगेन तु प्रकृतिरूपं निपात्यते। यथा च स्मृत्यन्तरम्, दगुकोसलकर्मारच्छागवृषाणां युट् वादिष्टस्य इति। दागव्यायनिः। कौसल्यायनिः। कार्मार्यायणिः। छग्यायनिः। वार्ष्यायणिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1161 कौसल्य। परमप्रकृतेरेवेति। कोसलकर्माराभ्यां फिञ्, तस्य युट् चेत्यर्थः। भाष्ये स्पष्टमेतत्। वक्तव्यमित्यर्थः।

तत्त्वबोधिनी

960 कौशल्य। परमप्रकृतेरेवायमिति। यदि तु `वृद्धेत्कोसले'ति ञ्यङन्तात्कोशलशब्दात्कारिलक्षणण्यन्तात्कर्मारशब्दाच्चायं विधिः स्यात्तदा यून्येव प्रसज्यतेतेति भावः। दगुशब्दस्याप्युपलक्षणमेतत्। फैञ्प्रकरणे `दगुकोसलकर्मारच्छागवृषाणां युट्चाऽऽदिष्टस्यं'इति वार्तिकात्। आदिष्टस्य। आयन्नदेशस्येत्यर्थः। अन्यथा प्रातिपदोक्ते युटि कृते प्रत्ययादित्वाऽभावात्कौशल्यायनिरित्यादौ फस्यायन्नादेसो न स्यात्, युकि कृते तु `दागव्यायनिः इत्यत्र और्गुणः, अन्यत्राऽल्लोपश्च न स्यादिति भावः।

Satishji's सूत्र-सूचिः

TBD.