Table of Contents

<<4-1-135 —- 4-1-137>>

4-1-136 गृष्ट्यादिभ्यश् च

प्रथमावृत्तिः

TBD.

काशिका

गृष्ट्यादिभ्यः शब्देभ्यो ऽपत्ये ढञ् प्रत्ययो भवति। अणादीनाम् अपवादः। गार्ष्टेयः। हार्ष्टेयः। गृष्टिशब्दो यश्चतुष्पादवचनः, ततः पूर्वेण एव सिद्धः। अच्तुष्पादर्थं वचनम्। गृष्टि। हृष्टि। हलि। बलि। विश्रि। कुद्रि। अजबस्ति। मित्रयु।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1127 गृष्ट\उfffदादिभ्यश्च। अण्ढकोरिति। गृष्टि, हलि, बलि, कुठि, अगस्ति, मित्रयु एते गृष्ट\उfffदादयः। अत्राऽन्त्ययोरृषित्वादण्प्राप्तः।अन्येभ्यस्तु `इतश्चाऽनिञः' इति ढक्प्राप्त इति विवेकः। सकृत्प्रसूता मानुष्यादिरपि गृष्टिः, नतु गोरेव। ततश्च `चतुष्पाद्भ्यः' इत्यनेन न प्राप्तिः।

तत्त्वबोधिनी

938 गृष्ट\उfffदादिभ्यश्च। गृष्टि, ह्मषि, हलि, बलि, क्रुद्रि, अगस्ति, मित्रयु। अण्ढकोरपवाद इति। इहान्त्ययोद्र्वयोरृषित्वादण् प्राप्तः, अन्येभ्यस्तु `इतश्चानिञः'इति ढगिति विवेकः। गार्ष्टेय इति। सकृत्प्रसूता सर्वापि गृष्टिः, न तु गोरेव। अतोऽत्र न `चतुष्पाभ्द्यः'इत्यनेन ढञ्?सिद्धिः।

Satishji's सूत्र-सूचिः

TBD.