Table of Contents

<<4-1-117 —- 4-1-119>>

4-1-118 पीलाया वा

प्रथमावृत्तिः

TBD.

काशिका

तन्नामिकाणो बाधके द्व्यच इति ढकि प्राप्ते अण् प्रत्ययः पक्षे विधीयते। पीलायाः अपत्ये वा अण् प्रत्ययो भवति। पीलायाः अपत्यं पैलः, पैलेयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1105 पीलाया वा। `अपत्येऽ'णिति शेषः। पीला नाम काचिन्मानुषी। तन्नामिकाणमिति। वाग्रहणाऽभावे त्वनेनाऽणा नित्यमेव ढको बाधः स्यात्। नच महाविभाषयाऽणः पाक्षिकत्वात्तदभावे ढक्भवत्येवेति वाच्यं, महाविभाषया अपवादे निषिद्धे उत्सर्गो न प्रवर्तत इति ज्ञापनात्।

तत्त्वबोधिनी

925 पक्षे इञिति। पूर्वसूत्राद्वाग्रहणानुवृत्तेरिति भावः।

Satishji's सूत्र-सूचिः

TBD.