Table of Contents

<<4-1-117 —- 4-1-119>>

4-1-118 पीलाया वा

प्रथमावृत्तिः

TBD.

काशिका

तन्नामिकाणो बाधके द्व्यच इति ढकि प्राप्ते अण् प्रत्ययः पक्षे विधीयते। पीलायाः अपत्ये वा अण् प्रत्ययो भवति। पीलायाः अपत्यं पैलः, पैलेयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1105 पीलाया वा। `अपत्येऽ'णिति शेषः। पीला नाम काचिन्मानुषी। तन्नामिकाणमिति। वाग्रहणाऽभावे त्वनेनाऽणा नित्यमेव ढको बाधः स्यात्। नच महाविभाषयाऽणः पाक्षिकत्वात्तदभावे ढक्भवत्येवेति वाच्यं, महाविभाषया अपवादे निषिद्धे उत्सर्गो न प्रवर्तत इति ज्ञापनात्।

तत्त्वबोधिनी

925 पक्षे इञिति। पूर्वसूत्राद्वाग्रहणानुवृत्तेरिति भावः।

Satishji's सूत्र-सूचिः

TBD.