Table of Contents

<<4-1-105 —- 4-1-107>>

4-1-106 मधुबभ्व्रोर् ब्राह्मणकौशिकयोः

प्रथमावृत्तिः

TBD.

काशिका

मधुशब्दाद् बभ्रुशब्दाच् च गोत्रापत्ये यञ् प्रत्ययो भवति यथासङ्ख्यम् ब्राह्मणे कौशिके वाच्ये। माध्व्यो भवति बाह्मणः चेत्। माधव एव अन्यः। बाभ्रव्यो भवति कौशिकश्चेत्। बाभ्रव एव अन्यः। बभ्रुशब्दो गर्गादिषु पठ्यते, ततः सिद्धे यञि कौशिके नियमार्थं वचनम्। गर्गादिषु पठो ऽप्यन्तर्गणकार्यार्थः, सर्वत्र लोहितादिकतन्तेभ्यः 4-1-18 इति। बाभ्रव्यायणी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1093 मधुबभ्व्रोः। शेषपूरणेन सूत्रं व्याचष्टे–गोत्रे यञिति। मधुशब्दाद्वभ्रुशब्दाच्च गोत्रापत्ये यञ्स्याद्वाहृणे कौशिके च यथासङ्ख्यं वाच्ये इत्यर्थः। लोहितादिकार्यमिति। ष्फ इत्यर्थः। लोहितादिर्गर्गाद्यन्तर्गणै इति भावः। बाभ्रव्यायणीति। बभ्रोर्गोत्रापत्यं स्त्रीति विग्रहः। गर्गादियञि बाभ्रव्यशब्दात् `सर्वत्र लोहितादिकतन्तेभ्यः' इति ष्फः।आयन्नादेशः, षित्त्वान्ङीषिति भावः।

तत्त्वबोधिनी

914 गोत्रे यद्यञन्तमित्यादि। प्रवराध्यायप्रसिद्धगोत्रवाचिनौ केवलौ यञञौ न भवत इति `गोत्र 'इत्यनेन तदन्तं विशेषितम्। तदवयवयोरिति। निर्दिश्यमानस्यादेशा भवन्ती'ति भावः। प्रवराध्यायेति। एतच्च `स्त्रीपुंसाभ्या'मिति सूत्रे `लौकिकष्य गोत्रस्य ग्रहण'मिति भाष्यमुपादाय कैयटेनोक्तमिति भावः। लोहितादीति। `सर्वत्र लोहितादी'त्यादिना ष्फः। ष्फेणोक्तेऽपि स्त्रीत्वे षित्त्वासामथ्र्यान्ङीषित्याशयेनाह—बाभ्रव्यायणीति। गर्गादिगण एव `बभ्रुः, कौशिक'इति पाठ\उfffद्म्, एवं हि द्विर्बभ्रुग्रहणं न कर्तव्यं भवतीति हरदत्तादयः।

Satishji's सूत्र-सूचिः

TBD.