Table of Contents

<<3-3-91 —- 3-3-93>>

3-3-92 उपसर्गे घोः किः

प्रथमावृत्तिः

TBD.

काशिका

भावे अकर्तरि च कारके इति वर्तते। उपसर्गे उपपदे घुसंज्ञकेभ्यः धातुभ्यः किः प्रत्ययो भवति। कित्करणम् आतो लोपार्थम्। प्रदिः। प्रधिः। अन्तर्धिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

865 प्रधिः. उपधिः..

बालमनोरमा

तत्त्वबोधिनी

1555 उपसर्गे [घोः किः। बाहुलकात्कत्र्तर्यपीति माधवः। अतएव उप = समीपे स्वधर्ममादधातीत्युपाधिरिति व्याचक्षते]। कित्त्वादातो लोपः। अन्तर्धिरिति। `अन्तः शब्दस्याऽङ्किविधी'ति वार्तिकादुपसर्गत्वम्। उपाधीयतेऽनेनेति। एतेन `उप = समीपे स्वधर्ममादधातीत्युपाधिः। बाहुलकात्कर्तरि कि'रिति माधवादिग्रन्थो नादर्तव्य इति ध्वनितम्। `विधाता वि\उfffदासृड्विधि'रित्यत्रापि कर्तरि माभूत् किः, किंतु विध विधाने इत्यस्मादिगुपधात्किदितीति रूपसिद्धेः।

Satishji's सूत्र-सूचिः

TBD.