Table of Contents

<<3-3-89 —- 3-3-91>>

3-3-90 यजयाचयतविच्छप्रच्छरक्षो नङ्

प्रथमावृत्तिः

TBD.

काशिका

भावे अकर्तरि च कारके इति वर्तते। यजाऽदिभ्यो धातुभ्यो नङ् प्रत्ययो भवति। ङकारो गुणप्रतिषेधार्थः। यज्ञः। याच्ञा। यत्नः। विश्नः। प्रश्नः। रक्ष्णः। प्रच्छेः असम्प्रसारणं ज्ञापकात् प्रश्ने च आसन्नकाले 3-2-117 इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

863 यज्ञः. याच्ञा. यत्नः. विश्नः. प्रश्नः. रक्ष्णः..

बालमनोरमा

तत्त्वबोधिनी

1554 यजयाच। भावेऽकर्तरि कारके चेति वर्तते। अत एव `यज्ञेन यज्ञमयजन्त देवाः' इत्यत्र इज्यते इति यज्ञ इति व्याचक्षते। [विश्न इति। `च्छ्वोः शूडनुनासिके चे'ति शः]।

Satishji's सूत्र-सूचिः

TBD.