Table of Contents

<<3-3-52 —- 3-3-54>>

3-3-53 रश्मौ च

प्रथमावृत्तिः

TBD.

काशिका

ग्रहः विभाषा प्रे इति वर्तते। प्रशब्दे उपपदे ग्रहेर् धातोः विभाषा घञ् प्रत्ययो भवति, रश्मिश्चेत् प्रत्ययान्तेन अभिधीयते। रथादियुक्तानाम् अश्वादीनां संयमनार्था रज्जू रश्मिरिह गृह्यते। प्रग्राः, प्रग्रहः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1538 रश्मौ च। रथादियुक्तानाम\उfffदाआनां संयमनार्था रज्जुः–रश्मिः। तस्यामभिधेययायां प्रे उपपदे ग्रहेर्घञ्वा स्याद्भावादौ। इह द्विःकृत्वो ग्रहिरुपात्तः, सकृदेव तु वक्तुं शक्यः। तथाहि— `उदि ग्रहः', `समि मुष्टौ' , `आक्रौशेऽवन्योः', `प्रे लिप्सायाम्' , `परौ यज्ञे', `अव वर्षप्रतिबन्धे विभाषा `प्रे वणिजा'मित्यादि `परौ भुवोऽवज्ञाने' इत्यस्यानन्तरम् `आङि रुप्लुवोः ' इत्यस्तु, तथा तु न कृतमित्येव।

Satishji's सूत्र-सूचिः

TBD.