Table of Contents

<<3-3-45 —- 3-3-47>>

3-3-46 प्रे लिप्सायाम्

प्रथमावृत्तिः

TBD.

काशिका

ग्रहः इत्येव। प्रशब्दे उपपदे ग्रहेर् धातो घञ् प्रत्ययो भवति लिप्सायां गम्यमानायाम्। पात्रप्रग्राहेण चरति भिक्षुः पिण्डार्थी। स्रुवप्रग्राहेण चरति द्विजो दक्षिणार्थी। लिप्सायाम् इति किम्? प्रग्रहो देवदत्तस्य।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

858 इवर्णान्तादच्. चयः. जयः..

बालमनोरमा

तत्त्वबोधिनी

1537 प्रे लिप्सायाम्। लिप्सायां किम् ?। देवदत्तस्य प्रग्रहः। प्रकृष्टोऽभिनिवेश इत्यर्थः। पात्रप्रग्राहेणेति। भिक्षापात्रोपादानेन। पात्रं गृहीत्वेति यावत्।

इत्यादिना कर्मण्यप्। ननु स्त्रीत्वविशिष्टे कर्मणि परत्वात्, क्तिना भाव्यम् `अजब्भ्यां स्त्रीखलनाः' इत्युक्तेरत आह–क्तिन्विषयेऽपीति। एवं च प्रायेण भावार्थ एव `घञजबन्ताः पुंसी'ति द्रष्टव्यम्।

Satishji's सूत्र-सूचिः

TBD.