Table of Contents

<<3-3-130 —- 3-3-132>>

3-3-131 वर्तमानसामीप्ये वर्तमानवद् वा

प्रथमावृत्तिः

TBD.

काशिका

समीपम् एव सामीप्यम्। ष्यञः स्वार्थिकत्वं ज्ञाप्यते चातुर्वर्ण्यादिसिद्ध्यर्थम्। वर्तमानसमीपे भूते भविष्यति च वर्तमानाद् धातोः वर्तमानवत् प्रत्यया वा भवन्ति। वर्तमने लट् 3-2-123) इत्यारभ्य यावदुणादयो बहुलम् (*3,3.1 इति वर्तामाने प्रत्यया उक्ताः, ते भूतभविष्यतोर् विधीयन्ते। कदा देवदत्त आगतो ऽसि? अयम् आगच्छामि। आगच्छन्तम् एव मां विद्धि। अयम् आगमम्। एषो ऽस्मि आगतः। कदा देवदत्त गमिष्यसि? एष गच्छामि। गच्छन्तम् एव मा विद्धि। एष गमिष्यामि। गन्तास्मि। वत्करणं सर्वसादृ\उ0304श्यार्थम्। येन विशेषणेन वर्तमाने प्रत्ययाः विहिताः प्रकृत्योपपदोपाधिना तथा एव अत्र भवन्ति। पवमानः। यजमानः। अलङ्करिष्णुः। सामीप्यग्रहणं किम्? विप्रकर्षविवक्षायां मा भूत्, परुदगच्छत् पाटलिपुत्रम्। वर्षेण गमिष्यति। यो मन्यते गच्छामि इति पदं वर्तमाने काले एव वर्तते, कालान्तरगतिस् तु वाक्याद् भवति, न च वाक्यगम्यः कालः पदसंस्कारवेलायाम् उपयुज्यते इति तादृशं वाक्यार्थप्रतिपत्तारं प्रति प्रकरणम् इदं नारभ्यते। तथा च श्वः करिष्यति, वर्षेण गमिष्यति इति सर्वम् उपपद्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

767 वर्तमाने ये प्रत्यया उक्तास्ते वर्तमानसामीप्ये भूते भविष्यति च वा स्युः. कदागतोऽसि. अयमागच्छामि, अयमागमं वा. कदा गमिष्यसि. एष गच्छामि, गमिष्यामि वा..

बालमनोरमा

613 वर्तमानसामीप्ये। स्वर्थे प्यञिति। अस्मादेव निर्देशाच्चतुर्वर्णादेराकृतिगणत्वाद्वेति भावः। इत्यारभ्येति। तृतीयस्य द्वितीये `वर्तमान ल'डित्यारभ्य आपादसमाप्तेः `उणादयो बहुल'मिति तृतीयपादादिमसूत्रात्पाग्वर्तमानाधिकारः। तस्मिन्नधिकारे येन विशेषणेन याभ्यः प्रकृतिभ्यो वर्तमाने प्रत्यया वहिताते सर्वे तेनैव विशेषणेन ताभ्यः प्रकृतिभ्यो वर्तमानसमीपकाले भूते भविष्यति च वा भवन्तीत्यर्थः। अत्र भूते भविष्यति चेत्यार्थिकं, तयोरेव वर्तमानसामीप्यसत्त्वात्। कदा आगतोऽसीत्यगतं प्रति प्रश्नः। अयमागच्छामित्युत्तरम्। अव्यवहितपूर्वकाले आगतवानस्मीत्यर्थः। वर्तमानसमीपकाले भूते लट्। `अय'मित्यनेन आगमनकालीनं प्रस्वेदपरिकरबन्धादियुक्तं रूपं निर्दिश्यते इदानीमागमनं सूचयितुम्। आगममिति। वर्तमानवत्त्वाऽभावे भूते लुङ्। कदा गमिष्यसीति गमनात्प्राक् प्रश्ने, एष गच्छामीत्युत्तम्। अव्यवहितोत्तरकाले गमिष्यामीत्यर्थः। `एष' इति तु अयमितिवद्वयाख्येयः। वर्तमानकालसमीपे भविष्यति लट्। गमिष्यामि वेति। वर्तमानवत्त्वाऽभावे भविष्यति लृट्।

तत्त्वबोधिनी

504 वर्तमान। स्वर्थे ष्यञिति। अस्मादेव सामीप्य इति निर्देशात्ष्यञि सिद्धे `चतुर्वर्णाअदिभ्यः' इति वार्तिकं प्रपञ्चार्थमित्याहुः। न चाऽत्र `पूरणगुणे'ति निषेधात्षष्ठीसमासो नप्राप्नोतीति वाच्यम्, अनेनैव निर्देशेन तन्निषेधस्याऽनित्यत्वाऽभ्युपगमात्।तेन `बुद्धमान्द्य'मित्यादि सिद्धम्। येनोपाधिनेति। धातुविशेषाद्युपाधिना। तथाहि पूड\उfffद्जोः शानन्विहितः, स ताभ्यामेव धातुभ्यां भवति,न तु धात्वन्तरात्। तच्छीलादिविशिष्टे कर्तरि `अलङ्कृ'ञित्यारभ्य `भ्राजभासे'ति यावत् ये इष्णुजादय उक्तास्तेऽपि कृञादिभ्यो धातुभ्यस्तस्मिन्नुपाधौ सत्यैव भवन्ति। `कदा आगतोऽसी'ति भूतकालेन प्रश्नवाक्यम्, `आगच्छामी'त्युदाहरणे भूतकालाभिव्यक्तयेऽयमिति प्रयोगस्त्विदानीमेवागममिति वर्तमानसमीपभूतकालद्योतनाय। तेन ह्रागमनाऽविनाभूतं यद्रूपं परिकरबन्धादियुक्तं तत्प्रतिनिर्दिश्यते। न च `कदे'ति प्रश्ने उत्तरवाक्ययोः कालानुपादानादसङ्गतिः शङ्क्या, उत्तरत्राऽयमेषशब्दाभ्यामिदानीमिति कालावगमात्। सामीप्ये किम् ?। कदा आगतो भवान् ?। अस्मान्मासात्पूर्वस्मिन्मासे आगच्छम्। एतच्च सूत्रमाकरे प्रत्याख्यातम्। गङ्गासमीपे गङ्गात्वारोपवद्वर्तमानसमीपे वर्तमानत्वारोपसंभवात्।

Satishji's सूत्र-सूचिः

TBD.