TBD.
ड इति वर्तते। आशिषि गम्यमानायां हन्तेर् धातोः कर्मण्युपपदे डप्रययो भवति। तिमिं वध्यात् तिमिहः। शत्रुहः। आशिषि इति किम्? शत्रुघातः। दारावाहनो ऽणन्तस्य च टः संज्ञायाम्। दारावुपपदे आङ्पूर्वाद् हन्तेः अण् प्रत्ययो भवति, अन्तस्य च ट कारादेशो भवति, संज्ञायां विषये। दारु आहन्ति दार्वाघाटः। चारौ वा। आङ्पूर्वात् हन्तेश्चारावुपपदे अण्, अन्तस्य वा टकारादेशः। चार्वाघाटः, चार्वाद्घातः। कर्मणि समि च। कर्मण्युपपदे सम्पूर्वात् हन्तेः धातोः अण् प्रत्ययो भवति, अन्तस्य च वा टकारदेशः। वर्णान् संहन्ति वर्णसङ्घाटः, वर्णसङ्घातः। पदानि संहन्ति पदसङ्घाटः, पदसङ्घातः।
TBD.
–
777 आशिषि हनः। कर्मण्युपपदे हन्तेर्डः स्यादाशिषि गम्यायामित्यर्थः। शत्रुघात इति। आसीरभावाड्डाऽभावे अण्। `हनस्त' इति तत्वम्। दारावाहन इति। वार्तिकमिदम्। दारौ, आहनः, अण्?, अन्तस्येति च्छेदः। अण्संनियोगेन टत्वविधानार्थमिदम्। चारौ वेति। वार्तिकमिदम्। चारुशब्दे उपपदे आङ्पूर्वाद्धन्तेरण्, अन्तस्य टो वा स्यादित्यर्थः। कर्मणणि समि चेति। वार्तिकमिदम्। उक्तं वेति। अण्, अन्तस्य ट इत्यर्थः। चारावित्यस्यानुवृत्तिनिवृत्तये कर्मणीत्युक्तिः।
–
TBD.