TBD.
संज्ञायाम् इति न अनुवर्तते। अन्त अत्यन्त अध्वन् दुर पार सर्व अनन्त इत्येतेषु कर्मसु उपपदेषु गमेः डप्रत्ययो भवति। अन्तगः अत्यन्तगः। अध्वगः। दूरगः। पारगः। सर्वगः। अनन्तगः। अनन्तगः। डकरः टिलोपार्थः, डित्यभस्य अप्यनुबन्धकरणसामर्थ्यातिति। डप्रकरणे सर्वत्रपन्नयोरुपसङ्ख्यानम्। सर्वत्रगः। पन्नगः। उरसो लोपश्च। उरसा गच्छति इति उरगः। सुदुरोरधिकरणे। सुखेन गच्छत्यस्मिनिति सुगः। दुर्गः। निरो देशे। निर्गो देशः। अप्र आह डप्रकरणे ऽन्येष्वपि दृश्यते इति। स्त्र्यगारगः। ग्रामगः। गुरुतल्पगः।
TBD.
–
776 अन्तात्यन्त। इत्यादि व्यक्तम्। सर्वत्रपन्नयोरिति। सर्वत्रशब्दे, पन्नशब्दे चोपपदे गमेर्डस्योपसङ्ख्यानमित्यर्थः उरस इति। उरसि उपपदे गमेर्डः, उरः शब्दान्त्यस्य लोपश्चेति वक्तव्यमित्यर्थः। सुदुरोरिति। सु, दुर्- - अनयोरुपपदयोर्गमेर्डः स्यात् अधिकरणे वाच्ये इत्यर्थः। अन्यत्रापि दृश्यत इति। अन्येष्वप्युपपदेषु अन्येभ्योऽपि धातुभ्यो डो दृश्यते इत्यर्थः। अनेनैव सिद्दे `सर्वत्रपन्नयो'रित्यादि प्रपञ्चार्थमेव। एवं च `सप्तम्यां जनेर्डः' इत्यत्रापि `अन्येष्वपि दृश्यते' इति प्रपञ्चार्थमेव। डे चेति। `विहायसो विहे'त्युक्तस्य खज्विषयत्वादिदं वचनम्। विहग इति। खचि तु मुमि विहङ्गम इति रूपम्।
645 * सुदुरोरधिकरणे। कर्मणि तु `ईषद्दुःसुषु' इति खलेव। सुखेन गम्यत इति सुगमः पन्थाः। दुर्गमः। शब्दापेक्षया पुंलिङ्गता। तदाह– दारुशब्दे इति। `कष्ठं दार्विन्धनं त्वेधः' इत्यमरः। टविधानार्थमिदम्। अण् तु `कर्मण्य'णित्येव सिद्धः। `अलोऽन्त्यस्ये'त्येव सिद्धेरन्तग्रहणं स्पष्टार्थम्। अन्यथा हि टप्रत्ययः संभाव्येत। दार्वाहन्तीति दार्वाघाटः। `गोधाकालकादार्वाघाटस्ते वनस्पतीनाम्'
वृत्तिः एषु गमेर्ड: स्यात्। । The affix “ड” may be used after the verbal root √गम् (गमॢँ गतौ १. ११३७) when in composition with a कर्म-पदम् (a पदम् which denotes the object of the action) which is either “अन्त” or “अत्यन्त” or “अध्वन्” or “दूर” or “पार” or “सर्व” or “अनन्त”।
उदाहरणम् – पारं गच्छतीति पारग:।
पार + ङस् (ref: 2-3-65) + गम् + ड 3-2-48
Note: In the सूत्रम् 3-2-48, the term अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु ends in the seventh (locative) case. Hence “पार + ङस्” gets the उपपद-सञ्ज्ञा here by 3-1-92
= पार ङस् + गम् + अ 1-3-7, 1-3-9
= पार ङस् + ग् + अ By 6-4-143 टेः। Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having डकार: as a इत् in “ड”। डित्वसामर्थ्यादभस्यापि टेर्लोपः।
= पार ङस् + ग
Now we form the compound between “पार ङस्” (which is the उपपदम्) and “ग” using the सूत्रम् 2-2-19. Note: Here “पार ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43
In the compound, “पार ङस्” is placed in the prior position as per 2-2-30
“पार ङस् + ग” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= पारग 2-4-71
Video The affix “ड” may be used after the verbal root √गम् (गमॢँ गतौ १. ११३७) when in composition with “उरस्” and simultaneously there is an elision of (the final letter of) “उरस्”।
उरसा गच्छतीति उरग:।
उरस् + टा + गम् + ड by वार्तिकम् (under 3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः) उरसो लोपश्च
= उर + टा + गम् + ड by the same वार्तिकम् – उरसो लोपश्च, 1-1-52
= उर + टा + गम् + अ 1-3-7, 1-3-9
= उर + टा + ग् + अ By 6-4-143 टेः। Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having डकार: as a इत् in “ड”। डित्वसामर्थ्यादभस्यापि टेर्लोपः।
= उर टा + ग
Remaining steps are similar to those shown in the derivation of “पारग” under 3-2-48
Video The affix “ड” may be used after the verbal root √गम् (गमॢँ गतौ १. ११३७) when in composition with “सर्वत्र” or “पन्न”।
सर्वत्र गच्छतीति सर्वत्रग:। पन्नं गच्छतीति पन्नग:।
Video The affix “ड” may be used after the verbal root √गम् (गमॢँ गतौ १. ११३७) when in composition with a उपपदम् which other than those specifically listed in 3-2-48.
ग्रामं गच्छतीति ग्रामग:।