Table of Contents

<<3-2-158 —- 3-2-160>>

3-2-159 दाधेट्सिशदसदो रुः

प्रथमावृत्तिः

TBD.

काशिका

दा धेट् सि शद सद इत्येतेभ्यः रुः प्रत्ययो भवति। दरुः। धारुर्वत्सो मातरम् न लौकाव्ययनिष्ठाखलर्थतृनाम् 2-3-69 इति उकारप्रश्लेषात् षष्ठी न भवति। सेरुः। शद्रुः। सद्रुः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

941 दाधेट्। दा, धेट्, सि, शद्, सद् एषां द्वन्द्वात्पञ्चमी। एभ्यो रुप्रत्ययः स्यात्तच्छीलादिष्वित्यर्थः।

तत्त्वबोधिनी

774 दाधेट्। डुदाञ्?दोडेङां त्रयाणामेव ग्रहणं,न तु दाण्?दापोरित्याहुः।

Satishji's सूत्र-सूचिः

TBD.