Table of Contents

<<3-2-157 —- 3-2-159>>

3-2-158 स्पृहिगृहिपतिदयिनिद्रादन्द्राश्रद्धाभ्य आलुच्

प्रथमावृत्तिः

TBD.

काशिका

स्पृह ईप्सायाम्, ग्रह ग्रहने, पत गतौ, चुरादौ अदन्ताः पठ्यन्ते। दय दानगतिरक्षणेषु। द्रा कुत्सायां गतौ, निपूर्वस् तत्पूर्वश्च, तदो नकारान्तता च निपात्यते। डुधाञ् श्रत्पूर्वः। एतेभ्यस् तच्छीलादिषु कर्तृषु आलुच् प्रत्ययो भवति। स्पृहयालुः। गृहयालुः। पतयालुः। दयालुः। निद्रालुः। तन्द्रालुः। श्रद्धालुः। आलुचि शीङो ग्रहणं कर्तव्यम्। शयालुः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

940 स्पृहिगृहि। स्पृहि, गृहि,पति, दयि, निद्रा, तन्द्रा, श्रद्धा, एभ्यः सप्तम्य आलुच् स्यात्तच्छीलादिष्वित्यर्थः। स्पृहयालुरिति। स्पृहधातोरदन्तादालुच्। `अयामन्ते'ति णेरय् णिलोपापवादः। अल्लोपस्य स्थानिवत्त्वान्न लघूपधगुणः। एवं गृहयालुः। पतयालुरित्यत्र तु अल्लोपस्य स्थानिवत्त्वान्नोपधावृद्धिः। निद्रालुरिति। `द्रा कुत्सायां गतौ' निपूर्वादालुच्। तत्पूर्वो द्रेति। तच्छब्दपूर्वो द्राधातुस्तन्द्रेत्यनेन गृह्रत इत्यर्थः। श्रद्धालुरिति। `श्र'दित्यव्ययं, तत्पूर्वाद्धातोरालुच्। शीङो वाच्य इति। आलु'जिति शेषः।

तत्त्वबोधिनी

773 स्पृहि। स्पृह ईप्सायाम्, गृहू ग्रहणे, पत गतौ। त्रयश्चुरादाविति। तेन णेरयादेशेन रूपसिद्धिरिति भावः। तत्पूर्व इति। तच्छब्दस्य समासोऽपि निपातनादिति बोध्यम्। डुधाञ् श्रत्पूर्वः। श्रद्धालुः। धेटस्तु नेदं रूपम्, श्रत्पूर्वस्य तस्य प्रयोगाऽभावादिति व्याचख्युः। ननु कथं कृपालुः स्पद्र्धालुरिति ?। कृपां स्पद्र्धांच लातीति विग्रहे मृगय्वादित्वात्कुः।

Satishji's सूत्र-सूचिः

TBD.