TBD.
शलन्तो यो धातुरिगुपधस् तस्मात् परस्य च्लेः अनिटः क्ष आदेशो भवति। दुह अधुक्षत्। लिह अलिक्षत्। शलः इति किम्? अभैत्सीत्। अच्छैत्सीत्। इगुपधातिति किम्? अधाक्षीत्। अनिटः इति किम्? अकोषीत्। अमोषीत्।
TBD.
593 इगुपधो यः शलन्तस्तस्मादनिटश्च्लेः क्सादेशः स्यात्. अधुक्षत्..
175 शल इगुपधा। शलन्त इति। `धातोरेकाचः' इत्यतोऽनुवृत्तधातुविशे,णत्वात्तदन्तविधिरिति भावः। सिचोऽपवादः। क्सादेशोऽदन्तः। ककार इत्। अघृक्षतेति। च्लेः क्सः। तस्य कित्त्वादृकारस्य न गुणः। हस्य ढः, भष्भावः, ढस्य कः, षत्वमिति भावः।
149 शल इगुपधा। `शल' इति धातोर्विशेषणात्तदन्तलाभः। शल इति किम् ?। अतिप्त। इगिति किम् ?। अगाढ। अनिटः किम्। औहिष्ट। क्सस्याचि। अजादाविति। अङ्गाक्षिप्तप्रत्ययोऽत्र विशेष्यः। `तङी'ति तु केषांचित्प्रक्षेपस्तस्य
TBD.
दावनुक्तत्वादित्याहुः। अन्ये तु `लुग्वा दुहे'त्यत्र आत्मनेपदे इत्यपकर्षणात्तङीति लभ्यते। तेन `दृशे क्सः' इति वार्तिकोक्तक्सप्रत्ययस्य लोपो न भवति, सदृक्षा अन्यादृक्षा इत्यत्रेत्याहुः।
वृत्ति: इगुपधो यः शलन्तस्तस्मादनिटश्च्लेः क्सादेशः स्यात् । The affix “च्लि” when without the augment “इट्” takes the substitute “क्स” when following a verbal root which ends in a शल् letter (“श्”, “ष्”, “स्”, “ह्”) and has a penultimate इक् letter (“इ”, “उ”, “ऋ”, “ऌ”).
Note: This सूत्रम् is अपवादः (exception) for 3-1-44.
उदाहरणम् – अधुक्षत् derived from √दुह् (दुहँ प्रपूरणे २. ४). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्। Note: The ending अकारः (which is a इत्) of “दुहँ” has a स्वरित-स्वरः, hence √दुह् is उभयपदी। Let us first consider the case where a परस्मैपद-प्रत्ययः is used.
दुह् + लुँङ् 3-2-110
= दुह् + ल् 1-3-2, 1-3-3, 1-3-9
= दुह् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-78
= दुह् + ति 1-3-3, 1-3-9
= दुह् + त् 3-4-100
= दुह् + च्लि + त् 3-1-43. Note: 7-2-10 blocks 7-2-35
= दुह् + क्स + त् 3-1-45. Note: Since “क्स” is a कित्-प्रत्ययः, 1-1-5 stops 7-3-86
= दुह् + स + त् 1-3-8, 1-3-9
= अट् दुह् + स + त् 6-4-71, 1-1-46
= अ दुह् + स + त् 1-3-3, 1-3-9
= अ दुघ् + स + त् 8-2-32
= अ धुघ् + स + त् 8-2-37
= अ धुघ् + ष + त् 8-3-59
= अधुक्षत् 8-4-55