Table of Contents

<<2-4-84 —- 1-1-1>>

2-4-85 लुटः प्रथमस्य डारौरसः

प्रथमावृत्तिः

TBD.

काशिका

लुडादेशस्य प्रथमपुरुषस्य प्रस्मैपदस्य आत्मनेपदस्य च यथाक्रमम् डा रौ रसित्येते आदेशा भवन्ति। कर्ता, कर्तारौ, कर्तारः। आत्मनेपदस्य अध्येता, अध्येतारौ, अध्येतारः। प्रथमस्य इति किम्? श्वः कर्तासि। श्वो ऽध्येतासे। इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ द्वितीयाध्यायस्य चतुर्थः पादः। तृतीयो ऽद्यायः प्रथमः पादः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

407 डा रौ रस् एते क्रमात्स्युः. डित्वसामर्थ्यादभस्यापि टेर्लोपः. भविता..

बालमनोरमा

37 भू इ तास् इति स्थिते– उकारस्य गुणेऽवादेशे च भविता स् इति स्थिते–लुटः प्रथमस्य। डा रौ रस् एषां द्वन्द्वात्प्रथमाबहुवचनम्। `लुट' इति स्थानषष्ठी। लुडादेशस्य प्रथमपुरुषस्येत्यर्थः। क्रमादिति – यथासङ्ख्यलभ्यम। ननु परस्मैपदस्य त्रयः प्रथमाः, आत्मनेपदस्य च त्रयः प्रथमा इति स्थानिनः षट्, आदेशास्तु त्रय इति कथं यथासङ्ख्यमिति चेन्न, डाश्च रौश्च रस् चेति कृतद्वन्द्वानां डारौरसश्च डारौरसश्चेत्येकशेषमाश्रित्य भाष्ये समाहितत्वात्। डाभावस्य चादेशत्वात् प्राक् प्रत्ययत्वाऽभावेन `चुटू' इत्यस्याऽप्रवृत्त्या सर्वादेशत्वम्। सति च तस्मिन् प्रत्ययत्वच्चुटू इति टकारस्येत्संज्ञेति भाष्ये स्पष्टम्। एवं च भू तास् आ इति स्थिते प्रक्रियां दर्शयति–डित्त्वसामथ्र्यादिति। डाभावस्य कप्रत्ययावधिषु स्वादिष्वनन्तर्भूतत्वेन तस्मिन् परे भत्वाऽभावेऽपि डित्त्वसामथ्र्याट्टेरिति टिलोप इत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

वृत्ति: “डा” “रौ” “रस्” एते क्रमात्स्युः । When they come in place of लुँट्, the third person affixes (“तिप्/त”, “तस्/आताम्”, “झि/झ”) are replaced respectively by “डा”, “रौ” and “रस्”।

Example continued from 3-1-33

भवितास् + ति
= भवितास् + डा 2-4-85
= भवितास् + आ 1-3-7, 1-3-9
= भवित् + आ 6-4-143. Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having डकार: as a इत् in “डा”। डित्वसामर्थ्यादभस्यापि टेर्लोपः।
= भविता ।