Table of Contents

<<2-4-53 —- 2-4-55>>

2-4-54 चक्षिङः ख्याञ्

प्रथमावृत्तिः

TBD.

काशिका

चक्षिङः ख्याञादेशो भवति आर्धधातुके। आख्याता। आख्यातुम्। आख्यातव्यम्। स्थानिवद्भावेन नित्यम् आत्मनेपदं न भवति, ञकारानुबन्धकरणसामर्थ्यात्। आख्यास्यति। आख्यास्यते। क्शादिरप्ययम् आदेश इष्यते। आक्शाता। आक्शातुम्। आक्शातव्यम्। वर्जने प्रतिषेधो वक्तव्यः। दुर्जनः संचक्ष्याः। वर्जनीयाः इत्यर्थः। असनयोश्च प्रतिषेधो वक्तव्यः। नृचक्षा रक्षः हिंसार्थो ऽत्र भातुः। अने खल्वपि विचक्षणः पण्डितः। बहुलं संज्ञाछन्दसोरिति वक्तव्यम्। अन्नवधकगात्रविचक्षणाजिराद्यर्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

916 अदन्तादव्ययीभावात्तृतीयासप्तम्योर्बहुलमम्भावः स्यात्. अधिगोपम्, अधिगोपेन, अधिगोपे वा. कृष्णस्य समीपम् उपकृष्णम्. मद्राणां समृद्धिः सुमद्रम्. यवनानां व्यृद्धिर्दुर्यवनम्. मक्षिकाणामभावो निर्मक्षिकम्. हिमस्यात्ययोऽतिहिमम्. निद्रा संप्रति न युज्यत इत्यतिनिद्रम्. हरिशब्दस्य प्रकाश इतिहरि. विष्णोः पश्चादनुविष्णु. योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः. रूपस्य योग्यमनुरूपम्. अर्थमर्थं प्रति प्रर्त्षथम्. शक्तिमनतिक्रम्य यथाशक्ति..

बालमनोरमा

267 चक्षिङः ख्याञ्। चक्षिङः ख्याञ् स्यादाद्र्धधातुके परे इत्यर्थः।

तत्त्वबोधिनी

233 ख्शादिरिति। तेन `पुंख्यान'मित्यत्र `पुमः खय्यम्परे' इति रुत्वं नेत्यादि पूर्वार्धे एवोक्तम्।

Satishji's सूत्र-सूचिः

वृत्ति: When the intention is to add a आर्धधातुकम् affix the verbal root √चक्ष् (चक्षिँङ् व्यक्तायां वाचि | अयं दर्शनेऽपि २. ७) takes the substitute “ख्याञ्”।

Note: Since “ख्याञ्” has ञकारः as a इत्, as per 1-3-72, 1-3-78 it is उभयपदी।

उदाहरणम् – अख्यत्/अख्यत derived from √चक्ष् (चक्षिँङ् व्यक्तायां वाचि | अयं दर्शनेऽपि २. ७). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

ख्याञ् + लुँङ् 2-4-54, 1-1-55, 3-2-110
= ख्या + ल् 1-3-2, 1-3-3, 1-3-9
= ख्या + तिप्/त 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-78, 1-3-72
= ख्या + ति/त 1-3-3, 1-3-9
= ख्या + त्/त 3-4-100
= ख्या + च्लि + त्/त 3-1-43
= ख्या + अङ् + त्/त 3-1-52
= ख्या + अ + त्/त 1-3-3, 1-3-9
= ख्य् + अ + त्/त 6-4-64, 1-1-52
= अट् ख्य् + अ + त्/त 6-4-71, 1-1-46
= अख्यत्/अख्यत 1-3-3, 1-3-9