Table of Contents

<<2-4-47 —- 2-4-49>>

2-4-48 इङश् च

प्रथमावृत्तिः

TBD.

काशिका

इङश्च सनि परतो गमिरादेशो भवति। अधिजिगांसते, अधिजिगांसेते, अधिजिगांसन्ते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

443 इङश्च। गमिः स्यात्सनीति। `णौ गमि'रित्यतः, `सनि चे'त्यतश्च तदनुवृत्तेरिति भावः। इङो ङित्त्वात् `पूर्वक्त्सनः' इति तङ्। परस्मैपदेष्वित्युक्तेर्नेट्। `अज्झने'ति दीर्घ इति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

वृत्तिः इङो गमिः स्यात्सनि । When the affix सन् follows, the verbal root √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१) is replaced by “गम्”।

उदाहरणम् – अधिजिगांसते is a desiderative form derived from √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१). विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

अधि गम् + सन् 2-4-48, 3-1-7
= अधि गम् + स 1-3-3, 1-3-9. Note: 7-2-10 stops 7-2-35. 7-2-58 does not apply here because a आत्मनेपदम् affix is going to follow.

Example continued under 6-4-16